SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मूलाचारे तथा;पुढवीय समारंभं जलपर्वणग्गीतसाणमारंभं । ण करेंति ण कारेंति य कारेंतं णाणुमोदंति ॥ ३६ ॥ पृथिव्याः समारंभं जलपवनाग्नित्रसानामारंभं । न कुर्वति न कारयति च कुर्वतं नानुमोदते ॥ ३६॥ टीका-पृथिव्याः समारंभं खननोत्कीर्णनचूर्णनादिकं न कुर्वतिन कारयंति कुर्वतं नानुमन्यन्ते धीरास्तथा जलपवनाग्नित्रसानामारंभे सेचनोत्कर्षणबीजनज्वालनमर्दनत्रासनादिकं न कुर्वन्ति न कारयंति नानुमन्यंत इति ॥ ३६ ॥ यतः;णिक्खित्तसत्थदंडा समणा सम सवपाणभूदेसु । अप्पडं चिंतता हवंति अव्वावडा साहू ॥ ३७॥ निक्षितशस्त्रदंडाः श्रमणाः समाः सर्वप्राणभूतेषु । आत्मार्थ चिंतयंतो भवंति अव्यापृताः साधवः ॥ ३७॥ टीका-निक्षिप्तशस्त्रदंडाः सर्वहिंसाकारणोपकरणमुक्ता यतः, श्रमणा यतश्च, सर्वप्राणभूतेषु समाः –समाना यतश्चात्मार्थ चिंतयतो भवंत्यव्यापृता व्यापारराहितास्ततस्ते न कस्यचित्कदाचित्पीडां कुर्वतीति ॥ ३७ ॥ विहरंतः कथंभूतं परिणामं कुर्वतीत्याशंकायामाह;उवसंतादीणमणा उवक्खसीला हवंति मज्झत्था । णिहुदा अलोलमसठा अबिझिया कामभोगेसु ॥ ३८॥ उपशांता अदीनमनसः उपेक्षाशीला भवंति मध्यस्थाः। निभृता अलोला अशठा अविस्मिता कामभोगेषु ॥ ३८ ॥ टीका-उपशांता अकषायोपयुक्ताः; अदीनमनसो दैन्यविरहिताः, पथश्रमक्षत्पिपासाज्वरादिपरीषहैरग्लानचित्तवृत्तयः,उपेक्षाशीला:सर्वोपसर्गसहनसमर्था
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy