________________
अनगारभावनाधिकारः।
mmmmmmm
टीका-देहे देहविषये निरपेक्षा ममत्वरहिताः, दमरुचय इंद्रियानिग्रहतत्पराः, आत्मानं दमयंतः, धृतिप्रग्रहप्रगृहीता धृतिवलसंयुक्ताः छिंदंति भवस्य मूलानीति ॥ ४३॥ .
विहारशुद्धिं व्याख्याय भिक्षाशुद्धिं प्रपंचयन्नाह;छहट्टममत्तेहिं पारेंति य परघरम्मि भिक्खाए। जमणहूं मुंजंति य ण वि य पयामं रसहाए ॥४४॥
षष्ठाष्टमभक्तैः पारयति च परगृहे भिक्षया । यमनार्थ भुंजते च नापि च प्रकामं रसार्थाय ॥४४॥
टीका-षष्ठाष्टमभक्तैस्तथा दशमद्वादशादिचतुर्थश्च पारयति भुंजते परगृहे भिक्षया कृतकारितानुमतिरहितलाभालाभसमानबुझ्या, यमनार्थ चारित्रसाधनार्थ च क्षुदुपशमनार्थं च यात्रासाधनमात्रं भुंजते, नैवं प्रकामं न च प्रचुरं रसार्थीय, अथवा नैव त्यागं कुवैति सद्रसार्थ यावन्मात्रेणाहारेण स्वाध्यायादिकं प्रवर्त्तते तावन्मानं गृह्णति नाजीर्णाय बह्वाहारं गृहंतीति ॥ ४४॥.....
कया शुद्ध्या भुंजत इत्याशंकायामाह;णवकोडीपरिसुद्धं दसदोसविवज्जियं मलविसुद्धं । . भुजति पाणिपत्ते परेण दत्तं परघरम्मि ॥४५॥
नवकोटिपरिशुद्धं दशदोषविवर्जितं मलविशुद्धं । भुंजते पाणिपात्रे परेण दत्तं परगृहे ॥ ४५ ॥
टीका-नवकोटिपरिशुद्धं मनोवचनकायैः कृतकारितानुमतिरहितं शंकितादिदोषपरिवर्जितं नखरोमादिचतुर्दशमलविशुद्धं भुंजते पाणिपात्रेण परेण दत्तं परगृहे, अनेन किमुक्तं भवति? स्वयं गृहीत्वा न भोक्तव्यं, पात्रं च न ग्राह्य, स्वगृहे ममत्वमधिष्ठिते न भोक्तव्यामति ॥ ४५ ॥