SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५६ मूलाचारे तथा;उद्देसिय कीदयडं अण्णादं संकिदं अभिहडं च । मुत्तप्पडिकूडाणि य पडिसिद्धं तं विवज्जति ॥ ४६ ॥ औद्देशिकं क्रीतं अज्ञातं शंकितं अभिघटं च । सूत्रप्रतिकुलं च प्रतिसिद्धं तत् विवर्जयंति ॥ ४६ ॥ टीका--औद्देशिकं, क्रीतं,अज्ञातमपरिज्ञातं,शंकितं संदेहस्थानगतं प्रासुकाप्रासुकभ्रान्त्या, अभिघटमित्येवमादि सूत्रप्रतिकूलं सूत्रप्रतिषिद्धमशुद्धं च यत्तत्सर्व विवर्जयंतीति ॥ ४६॥ भिक्षाभ्रमणविधानमाह,अण्णादमणुण्णादं भिक्खं णिचुच्चमज्झिमकुलेसु । घरपंतिहिं हिंडंति य मोणेण मुणी समादिति ॥ ४७ ॥ अज्ञातामनुज्ञातां भिक्षा नीचोच्चमध्यमकुलेषु। गृहपंक्तिभिः हिंडते च मौनेन मुनयः समाददते ॥ ४७ ॥ टीका--अज्ञातं यत्र गृहस्थैः साधव आगमिष्यंति भिक्षार्थ नानुमतं *स्वेन च तत्र मया न गंतव्यमिति नाभिप्रेतं अनुज्ञातं गृहस्थैर्यतय आगमिष्यति भिक्षार्थ स्वेन चावग्रहादिरूपेण मया तत्र गंतव्यं नानुमतं, भिक्षां चतुर्विधाहारं, नीचोच्चमध्यमकुलेषु दरिद्रेश्वरसमानगृहिषु गृहपंक्त्या हिंडंति पर्यटंति, मौनेन मुनयः समाददते भिक्षां गृहंतीति ॥ ४७ ॥ तथा रसनेंद्रियजयमाह;सीदलमसीदलं वा सुक्कं लुक्खं सिणिद्ध सुद्धं वा । लोणिदमलोणिदं वा भुंजंति मुणी अणासादं ॥४८॥ १' अशुद्धं ' ख-पुस्तके नास्ति । २ मया गंतव्यमिति प्रेस-पुस्तके । ३ अननुज्ञातं चानुमतं ग-पुस्तके । * पुष्पमध्यगतः पाठः ग-पुस्तके नास्ति। ४ गृहेषु ख-पुस्तके।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy