SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अनगास्भावनाधिकारः । शीतलमशीतलं वा शुष्कं रूक्षं स्निग्धं शुद्धं वा । लवणितमलवणितं वा भुंजते मुनयः अनास्वादम् ॥ ४८ टीका - शीतलं पूर्वाह्नवेलायां कृतं परित्यक्तोष्णभावं भोज्यं, अशीतलं तत्क्षणादेवावतीर्णमपरित्यक्तोष्णभावमोदनादिकं, रूक्षं घृततैलादिरहितं कोद्रवमकुष्टादिकं वा, शुष्कं दुग्धदधिव्यंजनादिरहितं स्त्रिधं घृतादिसहितं शाल्योदनादिकं शुद्धं पिठरादवतीर्णरूपं न च मनागपि विकृतं, लवणयुक्तं अलवणं वा भुंजते मुनयोऽनास्वादं यथा भवति जिह्वास्वादरहितमिति ॥ ४८ ॥ 9 यमनार्थपदस्यार्थे निरूपयन्नाह ; -- ५७ अक्खोमक्खणमेत्तं भुंजंति मुणी पाणधारणणिमित्तं । पाणं धम्मणिमित्तं धम्मं पि चरंति मोक्खटुं ॥ ४९ ॥ अक्षमृक्षणमात्रं भुंजते मुनयः प्राणधारणनिमित्तं । प्राणं धर्मनिमितं धर्ममपि चरंति मोक्षार्थम् ॥ ४९ ॥ टीका - अक्षमृक्षणमात्रं यथा शकटं धुरालेपनमंतरेण न वहत्येवं शरीरमप्यशनमात्रेण विना न संवहतीति मुनयः प्राणधारणनिमित्तं किंचिन्मात्रं भुंजते, प्राणधारणं च धर्मनिमित्तं कुर्वेति, धर्ममपि चरंति मोक्षार्थ मुक्तिनिमित्तमिति ॥ ४९ ॥ लाभालाभविषये समत्वमाह; — लद्धे ण होंति तुट्ठा ण वि य अलद्वेण दुम्मणा होंति । . दुक्खे सुहे य मुणिणो मज्झत्थमणाउला होंति ॥ ५० ॥ लब्धे न भवंति तुष्टा नापि च अलब्धेन दुर्मनसो भवंति । दुःखे सुखे च मुनयः मध्यस्था अनाकुला भवंति ॥ ५० ॥ · १ सम्बन्ध' प्रेस - पुस्तके |
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy