SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मूलाचारे टीका - भिक्षाया लाभे आहारादिसंप्राप्तौ न भवंति संतुष्टाः संतोषेपरिगता जिह्वेन्द्रियवशं गता * अद्य लब्धा भिक्षेति न हर्ष विदधति स्वचित्ते * न चाप्यलब्धे भिक्षाया अलाभेऽसंप्राप्तौ सत्यां दुर्मनसो विमनस्का न भवति 'अस्माभि राहारादिकमद्य न लब्धमिति दीनमनसो न भवंति' दुःखे संजाते सुखे च समुद्भूते मुनयो मध्यस्थाः समभावा अनाकुलाश्च भवतीति ॥ ५० ॥ चर्यीयां मुनीनां स्थैर्य निरूपयन्नाह ; ण वि ते अभित्थुणंति य पिंडत्थं ण वि य किंचि जायंति । मोणव्वदेण मुणिणो चरांत भिक्खं अभासंता ॥ ५१ ॥ नापि ते अभिष्टुवंति पिंडार्थं नापि च किंचित् याचंते । मौनव्रतेन मुनयः चरंति भिक्षां अभाषयंतः ॥ ५१ ॥ ५८ टीका - नापि ते मुनयोऽभिष्टुवन्ति नैवोपश्लोकादिभिः स्तुतिं कुर्वेति पिंडार्थं ग्रासनिमित्तं, नैवापि च किंचित् याचंते न चापि प्रार्थयंते द्रव्यादि - कमाहाराय मौनव्रतेन तोषैमादाय मुनयश्चरंति भिक्षार्थमाहारार्थं पर्यटंति, अभाषयंतः खात्कारघंटिकादिसंज्ञां वा न कुर्वेतीति न पौनरुक्त्यमिति ॥ ५१॥ , तथा; देहीति दीणकसं भासं च्छंति एरिसं वोतं । अवि णीदि अलाभेणं ण य मोणं भंजदे धीरा ॥ ५२ ॥ देहीति दीनकलुषां भाषां नेच्छति ईदृशीं वक्तुं । अपि निवर्तते लाभेन न च मौनं भंजते धीराः ५२ ॥ टीका - देहीति मम ग्रासमात्रं दध्वं यूयमिति दीनां करुणां च भाषां नेच्छंति । ईदृशीं वक्तुं सुष्ठु अहं बुभुक्षितो मम पंच सप्त वा दिनानि वर्त्त 1 १ संतोषपराः ख - पुस्ते । * पुष्पमध्यगतः पाठः प्रेस - पुस्तक एव । २ ' जोष ख-पुस्तके |
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy