SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्याधिकारः। १७५ बंधोऽनुभागबंधः प्रदेशबंधश्चेति । च शब्दः समुच्चयार्थः । सुत्तपदा-सूत्रपदानि एतानि सूत्रपदानि, अथवैते सूत्रपदा एतानि विंशतिसूत्राणि षोडशसूत्राणि वा द्रष्टव्यानि भवंतीति । यदि कायसंस्थानमिन्द्रियसंस्थानं च द्वे सूत्रे प्रकृत्यादिभेदेन च बंधस्य चत्वारि सूत्राणि तदा विंशतिसूत्राणां (णि) अथ कायेन्द्रियसंस्थानमेकं सूत्रं चतुर्धा बंधोप्येकं सूत्रं तदा षोडश सूत्राणीति ॥ ३॥ ४ ॥ प्रथमसूत्रसूचितपर्याप्तिसंख्यानामनिर्देशेनाह;आहारे य सरीरे तह इंदिय आणपाण भासाए । होति मणो वि य कमसो पज्जत्तीओ जिणक्खादा ॥४॥ आहारस्य च शरीरस्य तथेंद्रियस्य आनप्राणयोर्भाषायाः। भवंति मनसोपि च क्रमशः पर्याप्तय जिनाख्याताः ॥ ४ ॥ टीका-आहारे य-आहारस्याहारविषये वा कर्म नोकर्मस्वरूपेण पुद्गलानामादानमाहारस्तृप्तिकारणपुद्गलप्रचयो वा, सरीरे-शरीरस्य शरीरे वौदारिकादिस्वरूपेण पुद्गलपरिणामः शरीरं । तह-तथा । इंदिय-इंद्रियस्येंद्रियविषये वा पुद्गलस्वरूपेण परिणामः [ इन्द्रियविषये वा], आणपाणआनप्राणयोरानप्राणविषये वोच्छ्रासनिश्वासवायुस्वरूपेण पुद्गलप्रचय आनप्राणनामा । भासाए-भाषाया भाषाविषये वा शब्दस्वरूपेण पुद्गलपरिणामो भाषा । होंति-भवंति । मणो वि य-मनसोऽपि च मनोविषये वा चित्तोत्पत्तिनिमित्तपरमाणुनिचयो मनः । कमसो-क्रमशः कमेण यथानुक्रमेणागमन्यायेन वा । पज्जत्ती-पर्याप्तयः संपूर्णताहेतवः । जिणक्खादा जिनख्याताः सर्वज्ञप्रतिपादिताः । एताः पर्याप्तयः प्रत्येकमभिसंबध्यते । आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनप्राणपर्याप्तिः, भाषापर्याप्तिः, मन:पर्याप्तिरेताः षट् पर्याप्तयो जिनख्याता भवंतीति । पर्याप्तीनां संख्या षडेव नाधिका इति नामनिर्देशेनैव लक्षणं व्याख्यातं द्रष्टव्यं यतः, आहारपर्या
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy