________________
१७६
मूलाचारे
प्तिरिति किमुक्तं भवति येन कारणेन च त्रिशरीरयोग्यं भुक्तमाहारं खलरसभागं कृत्वा समर्थो भवति जीवस्तस्य कारणस्य निर्वृत्तिः संपूर्णता आहारपर्याप्तिरित्युच्यते । तथा शरीरपर्याप्तिरिति किमुक्तं भवति येन कारणेन शरीरप्रायोग्यानि पुद्गलद्रव्याणि गृहीत्वौदारिकवक्रियकाहारकशरीरस्वरूपेण परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता शरीरपर्याप्तिरित्युच्यते । तथेंद्रियपर्याप्तिरिति किमुक्तं भवति येन कारणेनैकेन्द्रियस्य द्वीन्द्रियस्य त्रयाणामिंद्रियाणां चतुर्णा पंचेंद्रियाणां प्रायोग्यानि पुद्गलद्रव्याणि गृहीत्वात्मात्मविषये ज्ञातुं समर्थो भवति तस्य कारणस्य निवृत्तिः परिपूर्णता इन्द्रियपर्याप्तिरित्युच्यते । तथाऽऽनप्राणपर्याप्तिरिति किमुक्तं भवति येन कारणेनानप्राणप्रायोग्यानि पुद्गलद्रव्याण्यवलंव्यानप्राणपर्याप्त्या निःसृत्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णताऽऽनप्राणपर्याप्तिरित्युच्यते । तथा भाषापर्याप्तिरिति किमुक्तं भवति येन कारणेन सत्यमृषा असत्यमृषाया? भाषायाश्चतुर्विधायाः प्रायोग्यानि पुद्गलद्रव्याण्याश्रित्य चतुविधाया भाषायाः स्वरूपेण परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता भाषापर्याप्तिरित्युच्यते । तथा मनःपर्याप्तिरिति किमुक्तं भवति येन कारणेन चतुर्विधमनःप्रायोग्यानि पुद्गलद्रव्याश्रित्य चतुर्विधमनःपर्याप्त्या परिणमय्य समर्थो भवति तस्य कारणस्य निर्वृत्तिः संपूर्णता मनःपर्याप्तिरित्युच्यते । अतो न पृथग्लक्षणसूत्रं कृतमिति ॥ ५ ॥
पर्याप्तीनां स्वामित्वं प्रतिपादयन्नाह;एइंदिएसु चत्तारि होते तह आदिदो य पंच भवे । वेइंदियादियाणं पज्जत्तीओ असणित्ति ॥५॥ पकेंद्रियेषु चतत्रो भवंति तथा आदितश्च पंच भवति । बींद्रियादिकानां पर्यातयः असंहीति ॥ ५॥ .