________________
पर्याप्त्यधिकारः ।
१७७
टीका-एइंदिएसु-एकमिन्द्रियं येषां ते एकेंद्रियाः पृथिवीकायिकादिवनस्पतिकायिकांतास्तेष्वकेंद्रियेषु । चत्तारि-चतस्रोऽष्टा ः । होति-भवंति । तह-तथा तेनैव न्यायेन व्यावर्णितक्रमण । आदिदो य-आदितश्चादौ प्रभृति प्रथमाया आरभ्य, पंच-दशार्धसंख्यापरिमिताः । भवे-भवंति विद्यते, वेइंदियादियाणं-दीन्द्रियादीनां दीन्द्रयादिर्येषां ते द्वीन्द्रियादयस्तेषां द्वीन्द्रियादीनां, पज्जत्तीओ-पर्याप्तयः, असण्णित्ति-असंज्ञीति असंज्ञिपर्यंतानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामाहारशरीरेन्द्रियानप्राणभाषापप्तियः पंच भवंति । तथैकेंद्रियेषु चाहारशरीरेन्द्रियानप्राणपर्याप्तयश्चतम्रो भवंति, द्वीन्द्रियाद्यसंज्ञिपर्यंतानां पंच भवंतीति ॥५॥
अथ षडपि पर्याप्तयः कस्य भवंतीत्याशंकायामाह;छप्पि य पज्जत्तीओ बोधब्बा होंति सण्णिकायाणं । एदाहि अणिव्वत्ता ते दु अपज्जत्तया होंति ॥६॥ षडपि च पर्याप्तयो बोद्धव्या भवति संज्ञिकायानां । एताभिरनिर्वृत्तास्ते त्वपर्याप्तका भवंति ॥ ६॥ टीका–छप्पि य-घडपि च द्वादशार्द्धा अपि समस्ताः, पजत्तीओपर्याप्तय आहारशरीरोंद्रियानप्राणभाषामनःपर्याप्तयः, बोधव्वा-बोद्धव्याः सम्यगवगंतव्याः, होति-भवंति, सण्णिकायाणं-संज्ञिकायानां ये संज्ञिनः पंचेन्द्रियास्तेषां षडपि पर्याप्तयो भवंति इत्यवगंतव्यम् । अथ केऽपर्याप्ता इत्याशंकायामाह;--एदाहिं-एताभिश्चतसृभिः पंचभिः षभिः पर्याप्तिभिः, अणिव्वत्ता-अनिर्वृत्ता असंपूर्णा अनिष्पन्नाः, ते दु-ते तु त एव जीवाः, अपज्जत्तया-अपर्याप्तकाः, होति-भवंतीति ॥ ६ ॥
संख्या पर्याप्तीनां नामनिर्देशेनैव प्रतिपन्ना तदर्थ न पृथक् सूत्रं कृतं, यावता कालेन च तासां निष्पत्तिर्भवति तस्य कालस्य परिमाणार्थमाह;
१२