________________
१७८
मूलाचारे
पज्जत्तीपज्जत्ता भिण्णमुहुत्तेण होंति णायवा। अणुसमयं पज्जत्ती सम्वेसिं चोववादीणं ॥७॥ पर्याप्तिपर्याप्ता भिन्नमुहूर्तेन भवंति ज्ञातव्याः। अनुसमयं पर्याप्तयः सर्वेषां चोपपादिनां ॥७॥ टीका--पज्जत्तीपज्जता-पर्याप्तिभिः पर्याप्ताः संपूर्णाः पर्याप्तिपर्याप्ताः संपूर्णाहारादिहेतवः, भिण्णमुहुत्तेण-भिन्नमुहूर्तेन समयादूनघटिकाद्वयेन, होंति-भवंति, णायव्वा-ज्ञातव्या एते तिर्यङ्मनुष्या ज्ञातव्याः, यतः अणुसमयं-अनुसमयं समयं समयं प्रतिसमयं वा लक्षणं कृत्वा, पज्जत्ती-पर्यातयः, सव्वेसिं-सर्वेषां, उववादीणं उपपादो विद्यते येषां त उपपादिनस्तेषामुपपादिनां देवनारकाणां । अथ स्यान्मतं कोऽयं विशेषो देवनारकाणामनसमयं पर्याप्तिः शेषाणां भिन्नमहर्जेनेति नैष दोषः देवनारकाणां पर्याप्तिसमानकाले एव सर्वावयवानां निष्पत्तिर्भवति न शेषाणां सर्वेषां यतो यस्मिनेव काले देवनारकारणामाहारादिकारणस्य निष्पत्तिस्तस्मिन्नेव काले शरीरादिकार्यस्यापि, तिर्यङ्मनुष्याणां पुनर्लघुकालेनाहारादिकारणस्य निष्पत्तिः शरीरादिकार्यस्य च महतातः सर्वेषामुपपादिनामनुसमयं पर्याप्तयः तिर्यङमनुष्याणां भिन्नमुहूर्त्तनेत्युक्तमिति । पर्याप्तीनां स्थितिकालस्तिर्यमनघ्याणां जघन्येन क्षुद्रभवग्रहणं किंचिदून उच्छासाष्टादशभाग उत्कृष्टेन त्रीणि पत्योमानि, देवनारकाणां च जघन्येन दशवर्षसहस्राण्युत्कृष्टेन त्रयत्रिंशत्सांगरोपमाणि जीवितसमाः पर्याप्तयो यतो न पृथक् स्थितिकाल उक्त इति ॥ ७ ॥
अथ कथमेतज्ज्ञायतेऽनुसमयं पर्याप्तिरुपपादिनामिति पृष्टे पूर्वागममाह;जह्मि विमाणे जादो उववादसिला महारहे सयणे । अणुसमयं पज्जत्तो देवो दिव्वेण रूवेण ॥ ८॥ यस्मिन् विमाने जात उपपादशिलायां महाहे शयने । अनुसमयं पर्याप्तः देवः दिव्येन रूपेण ॥ ८॥