________________
पर्याप्त्यधिकारः।
१७९
mamarnama
टीका-जम्हि-यस्मिन्, विमाणे-विमाने भवनादिसर्वार्थसिद्धिविमानपर्यंते, जादों-जात उत्पन्नः, उववादसिला-उपपादशिलायां शुक्तिपुटाकारायां, महारहे-महार्हे महापूज्या, सयणे-शयने शयनीयेऽनेकमणिखचितपर्यके सर्वालंकारविभूषिते, अणुसमयं-अनुसमयं समयं समयं प्रति, पज्जत्तो-पर्याप्तः संपूर्णयौवनः सर्वाभरणभूषितः देवो-देवः, दिव्वेण-दिव्येन सुष्ठु शोभनेन, रूवेण-रूपेण शरीराकारवर्णादिना । यस्मिन् विमाने शिलायां महार्हे शयनीये देवो जातस्तस्मिन्नेवानुसमयं पर्याप्तो दिव्येन रूपेण भवतीति ॥ ८॥
देहसूत्रं विवृण्वन् संबंधेनैव देवदेहं प्रतिपादयन्नाह;देहस्स य णिवत्ती भिण्णमुहूत्तेण होइ देवाणं । सव्वंगभूसणगुणं जोव्वणमवि होदि देहम्मि ॥ ९ ॥ देहस्य च निर्वृतिभिन्नमुहूर्तेन भवति देवानाम् । सर्वागभूषणगुणं यौवनमपि भवति देहे ॥ ९॥
टीका-देहस्स-य-देहस्य च शरीरस्य, णिव्वत्ती-निवृत्तिनिष्पत्तिः, भिण्णमुहुत्तेण-भिन्नमुहूर्तेन किंचिदूनघटिकाद्वयेन, होदि-भवति, देवाणंदेवानां भवनवासिकादीनां न केवलं षट्पर्याप्तयो भिन्नमुहूर्तेन निष्पत्तिं गच्छंति किं तु देहस्यापि च निष्पत्तिः सर्वकार्यकरणक्षमा भिन्नमुहूर्तेनैव भवतीति । तथा न केवलं देहस्योत्पत्तिर्भिन्नमुहूर्तेन किं तु सव्वंगभूसणगुणं-सर्वाणि च तान्यंगानि सर्वांगानि करचरणशिरोग्रीवादीनितानि भूषयति इति सर्वांगभूषणः सर्वांगभूषणो गुणविशेषो यस्य तत्सर्वांगभूषणगुणं निरवशेषशरीरावयवालंकारकरणं, जोव्वणं-यौवनं प्रथमवयः परमरमणीयावस्था सर्वालंकारसमन्विता अतिशयमतिशोभनं सर्वजननयनाह्लादकर, होदि-भवति, देहम्मि-देहे शरीरे । देवानां यौवनमपि शोभनं सर्वागभूषणगुणं तेनैव भिन्नमुहूर्तेन भवतीति ॥ ९॥