SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८० मूलाचारे पुनरपि देवव्यावर्णनद्वारेण देहमाह;कणयमिव णिरुवलेवा णिम्मलगत्ता सुयंधणीसासा। अणादिवरचाररूवा समचतुरंसोरुसंठाणं ॥१०॥ कनकमिव निरुपलेपा निर्मलगावाः सुगंधनिश्वासाः। अनादिपरचारुरूपाः समचतुरस्रोरुसंस्थानाः ॥ १० ॥ टीका-अणादिपर-आदिबलत्वं परो वृद्धत्वं आदिश्च परश्चादिपरौं न वियेते आदिपरौ बालवृद्धपर्यायौ यस्य तस्य तदनादिपरं चारु शोभनं सर्वजननयनकांतं रूपं शरीरावयवरमणीयता अनादिपरं चारुरूपं येषां ते अनादिपरचारुरूपा यावदायुःशरीरस्थिरयौवना इत्यर्थः अतिशयितस्थिरचारुरूपा वा, समचउरंसोरु-समचतुरस्रं उरु महत् पूज्यगुणं, संठाणंसंस्थानं शरीराकारः समचतुरस्रं उरु संस्थानं येषां ते समचतुरस्रोरुसंस्थाना यथाप्रदेशमन्यूनाधिकावयवसंपूर्णप्रमाणाः, कणयमिव-कनकमिव, णिरुवलेवा-निरुपलेपा उपलेपान्मलानिर्गता निरुपलेपाः, णिम्मलगत्ता-निर्मलं गात्रं येषां ते निर्मलगात्राः, सुयंधणीसासा-सुगंधः सर्वघ्राणेंद्रियाल्हादनकरो निःश्वास उछासो येषां ते सुगंधनिःश्वासाः । कनकमिव निर्लेपा निर्मलगात्रा: सुगंधनिःश्वासा अनादिपरचारुरूपाः समचतुरस्रोरुसंस्थाना देवा भवंतीति संबंधः ॥ १० ॥ किं देवसंस्थाने सप्त धातवो भवतीत्यारेकायां परिहारमाह;केसणहमंसुलोमा चम्मवसारुहिरमुत्तपुरिसं वा। णेवट्ठी णेव सिरा देवाण सरीरसंठाणे ॥ ११ ॥ केशनखश्मश्रुलोमानि चर्मवसारुधिरमूत्रपुरीषाणि वा। नैवास्थीनि नैव सिरा देवानां शरीरसंस्थाने ॥ ११ ॥ टीका-केस- केशा मस्तकऱ्यांनयननासिकाकर्णकक्षगुह्यादिप्रदेशवालाः, णह-नखाः हस्तपादांगुल्यग्रोद्भवाः, मंसु-श्मभूणि कूर्चवालाः,
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy