________________
१८१
पर्याप्त्यधिकारः।
......~~~~~~~~mmmmmmmirm m ~ लोम-लोमानि सर्वशरीरोद्भवसूक्ष्मवालाः, चम्म-चर्म मांसादिप्रच्छादिका त्व,वस-वसा मांसास्थिगतस्निग्धरसः, रुहिर-रुधिरं रक्तं, मुत्तं-मूत्रं प्रस्रवर्ण, 'पुरिसं-पुरीषं, वाशब्दोऽन्येषां समुच्चयार्थः शुक्रप्रस्वेदत्वगादीनां । णेव-नैव पूर्वोक्तानि सर्वाणि नैव भवंति, अट्री-अस्थीनि संहननकारणानि, नैव सिरासिराजालानि । देवाण-देवानां शरीरसंस्थाने, केशनखश्मश्रुलोमचर्मवसारुधिरमूत्रपुरीषशुक्रप्रस्वेदानि नैव भवंति, अस्थिसिराश्च नैव भवंतीति ।। ११ ॥
शरीरगतपुद्गलातिशयं प्रतिपादयन् देहमाह;वरवण्णगंधरसफासादिवंबहुपोग्गलेहिं णिम्माणं । गेण्हदि देवो देहं सुचरिदकम्माणुभावेण ॥ १२॥ .
वरवर्णगंधरसस्पर्शदिव्यबहुपुद्गलैनिर्मितं । गृह्णाति देवो देहं स्वचरितकर्मानुभावेन ॥ १२ ॥ टीका:-वराः श्रेष्ठा वर्णरसगंधस्पर्शा येषां ते वरवर्णगंधरसस्पर्शास्ते च ते दिव्यबहुपुद्गलाश्च तैर्वरवर्णगंधरसस्पर्शदिव्यानंतपुद्गलैः सर्वगुणविशिष्टवैक्रियकशरीरवर्गणागतानंतपरमाणुभिः, णिम्माणं-निर्मितं सर्वावयवरचितं, गेण्हदि-गृह्णाति स्वीकरोति, देवो-देवः, देह-शरीरं, सुचरिदकम्माणुभावेण-स्वेन चरितमर्जितं तच्च तत्कर्म च सुचरितकर्म तस्यानुभावो माहात्म्यं तेन स्वचरितकर्मानुभावेन पूर्जितशुभकर्मप्रभावेन । देवो वरवर्णगंधरसस्पर्शदिव्यबहुपुद्गलनिर्मितं शरीरं गृह्णाति ॥ १२ ॥ ___ अथ देवानां त्रयाणां शरीराणां मध्ये कतमद्भवतीत्यारेकायामाह;वेउब्वियं सरीरं देवाणं माणुसाण संठाणं । सुहणाम पसत्थगदी सुस्सरवयणं सुरूवं च ॥ १३ ॥
वैकियिकं शरीरं देवानां मनुष्याणां संस्थानं । शुभनाम प्रशस्तगतिः सुस्वरवचनं सुरूपं च ॥ १३ ॥