________________
१८२
मूलाचारे
mammy
टीका-वेउब्वियं-अणिमादिलक्षणा विक्रिया तस्यां भवं सैव प्रयोजनं वा वैक्रियकं सूक्ष्मादिभावेन नाना शरीरविकरणसमर्थ विविधगुणर्द्धियुक्तं वा शरीरं आत्मप्रवृत्युपचितपुद्गलपिंडः, देवाणं-देवानां, माणुसाण-मनुघ्याणां मनुष्यजातिकर्मोदयवतां, संठाणं-संस्थानं सर्वावयवसंपूर्णता, सुहणाम-शुभं शोभनं नाम संज्ञानुभावो यस्य तच्छुभनाम प्रशस्तनामकर्मोदयवत् , पसत्थगदी प्रशस्ता शोभना गतिर्गमनं यस्य प्रशस्तगतिः मृदुमंथरविलासादिगुणसंयुक्तं, सुस्सरवयणं-शोभनः स्वरो यस्य तत्, सुस्वरवचनं, सुरूवं-सुरूपं शोभनरूपं शोभनं रूपं यस्य तत् सुरूपं, चशब्देनान्यदपि गीतनृत्तादि गृह्यते यत एवं ततो यद्यपि केशनखादिरहितं.. तथापि न बीभत्सरूपं यतो देवानां वैक्रियकं शरीरं । संस्थानं पुनः किंविशिष्ट ? शुभनाम प्रशस्तगतिः सुस्वरवचनं सुरूपं मनुष्याणामिवास्य केशनखाद्याकारः सर्वोऽपि विद्यत एव सुवर्णशैलप्रतिमानामिवेति ॥ १३॥
न केवलं देवानां वैक्रियकं शरीरं किन्तु नारकाणामपि यद्येवं तदेव तावत्प्रतिपादनीयमित्याशंकायां प्रमाणपूर्वक नारकदेहस्वरूपं प्रतिपादयन्नाह;पढमाए पुढवीए णेरइयाणं तु होइ उस्सेहो। सत्तधणु तिण्णि रयणी छञ्चेव य अंगुला होति ॥१४॥ प्रथमायां पृथिव्यां नारकाणां तु भवत्युत्सेधः । सप्तधनूंषि त्रिरत्नयः षडेव चांगुलानि भवंति ॥१४॥ टीका-पढमाए-प्रथमायां रत्नप्रभायां, पुढवीए-पृथिव्यां, णेरइयाणंनारकाणां, तुशब्दः स्वविशेषग्राहकः तेनान्यदपि द्वादशप्रस्ताराणां शरीरप्रमाणं वेदितव्यं, हादि-भवति, उस्सेहो-उत्सेधः शरीरप्रमाणं, सत्तधणुसप्तधनूंषि, तिण्णि रयणी-त्रिरत्नयो हस्तत्रयं, छच्चेव-षडेव शब्दः समुञ्चयार्थः, अंगुलानि, होंति-भवंति अष्टयवनिष्पन्नमंगुलं चतुर्विंशत्यंगुलैहस्त