________________
पर्याप्त्याधिकारः।
१८३
श्चतुर्हस्तं धनुः। नारकाणां प्रथमपृथिव्यां त्रयोदशप्रस्तारे विक्रांताख्ये शरीरस्योत्सेधः सप्त धनूंषि हस्तत्रयं षडंगुलानि इति । प्रथमे पुनः सीमंतकाख्ये प्रस्तारे त्रयो हस्ता नारकशरीरस्योत्सेधो मुखं सप्त धनूंषि हस्तत्रयं षडंगुलानि भूमिः, भूमेमुखं विशोध्य शुद्धशेषस्य द्वादशभिर्भागैर्हते इच्छया गुणिते लब्धे मुखसहिते प्रथमवर्जितद्वादशप्रस्ताराणां नारकशरीरप्रमाणमागच्छतीति । तथा नरनाम्नि द्वितीयप्रस्तारे एकं धनुरेको हस्तः सार्द्धान्यटांगुलानि च नारकाणां शरीरोत्सेधः । तृतीयप्रस्तारे रोरुकनामधेये शरीरस्योत्सेध एकं धनुस्त्रयो हस्ताः सप्तदशैवांगुलानि । चतुर्थप्रस्तारे भ्रांतसंज्ञके नारकतनोरुत्सेधो द्वे धनुषी द्वौ हस्तौ सार्द्धमंगुलं । पंचमप्रस्तार उद्भांतनाम्नि दंडत्रयं दशांगुलानि तनोरुत्सेधः । षष्ठप्रस्तारे संभ्रान्तसंज्ञके धनुर्षा त्रयं द्वौ हस्तावंगुलान्यष्टादश सार्द्धानि च । सप्तमप्रस्तारेऽसंभ्रांताख्ये कार्मुकचतुष्टयमेको हस्तस्त्रीण्यंगुलानि च शरीरोत्सेधः । अष्टमप्रस्तारे विभ्रांताख्ये कोदंडचतुष्टयं हस्तत्रयमेकादशांगुलानि सार्दानि तनोरुत्सेधः । नवमप्रस्तारे त्रस्तनामनि कार्मुकाणां पंचकमेको हस्तोंऽगुलानि च विंशतिः शरीरोत्सेधः । दशमप्रस्तारे त्रसितनामके षट् धनूंषि सार्कीगुलचतुष्कं च शरीरप्रमाणं । एकादशप्रस्तारे वक्रांताख्ये धनुषां षट्कं हस्तद्वितयं त्रयोदशांगुलानि च । द्वादशप्रस्तारे चावक्रांताख्ये धनुषां सप्तकं सहितमेकविंशत्या सागुलेन च तनोः प्रमाणं । त्रयोदशप्रस्तारे विक्रांते सप्त चापा हस्तत्रयं षडंगुलानि च शरीरोत्सेधः । प्रथमे तु सीमंतके प्रस्तारे हस्तत्रयामति शरीरं प्रथमपृथिव्यां शरीरप्रमाणमेतदिति ॥ १४ ॥
द्वितीयायां च पृथिव्यां नारकशरीरप्रमाणं प्रतिपादयन्नाह;विदियाए पुढवीए रइयाणं तु होइ उस्सेहो। .. पण्णरस दोण बारस धणु रदणी अंगुला चेव ॥१५॥
द्वितीयायां पृथिव्यां नारकाणां तु भवति उत्सेधः । पंचदश द्वौ द्वादश धषि रत्नयोऽङ्गलानि चैव ॥ १५ ॥