SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८४ मुलाचारे टीका-विदियाए-द्वितीयायां द्वितीययोः पूरणी द्वितीया तस्यां, पुढवीए-पृथिव्यां शर्कराख्यायां, णेरइयाणं-नारकाणां, तुशब्दः संगृहीताशेषोत्सेधविशेषः, होदि-भवति, उस्सेहो-उत्सेधः शरीरोत्सेधप्रमाणं, पप्णरस-पंचदश, दोणि-दौ, वारस-द्वादश,धणु-धनूंषि,रदणी-रत्नयः हस्ताः, अंगुला चेव-अंगुलानि चैव, यथासंख्येन संबंधः । द्वितीयायां पृथिव्यामेकादशे प्रस्तारे नारकाणामुत्सेधः पंचदश धनूंषि द्वौ हस्तौ द्वादशांगुलानि । अत्रापि मुखभूमिविशेषं कृत्वोत्सेधे हृते इच्छागुणितं मुखसाहितं च सर्वप्रस्ताराणां प्रमाणं वक्तव्यं । तद्यथा । अत्रैकादशप्रस्ताराणि भवंति-तत्र प्रथमप्रस्तारे सूरसूरकनाम्नि नारकाणामुत्सेधोऽष्टौ धनूंषि हस्तद्वयं द्वावेकादशभागावंगुलद्वयं च । द्वितीयप्रस्तारे स्तनकनाम्नि नारकोत्सेधो नव दंडा द्वाविंशत्यंगुलानि चतुरेकादशभागाः । तृतीयप्रस्तारे मनकनामधेये नव धनूंषि त्रयो हस्ता अष्टादशांगुलानि षडेकादशभागानि चोत्सेधः । चतुर्थप्रस्तारे नवकसंज्ञके नारकोत्सेधः दश दंडा द्वौ हस्तौ चतुर्दशांगुलानि साष्टैकादशभागानि । पंचमप्रस्तारे घाटनामके एकादशदंडा हस्तश्चैकादशांगुलानि दशैकादशभागाश्च शरीरोत्सेधः । षष्ठप्रस्तारे संघाटसंज्ञके नारकशरीरोत्सेधो द्वादश दंडाः सप्तांगुलानि तथैकादशभागाश्चसप्तमप्रस्तारे जिह्वाख्ये द्वादश दंडा हस्तत्रयं त्रीण्यंगुलानि त्रय एकादशभागाश्चोत्सेधः । अष्टमप्रस्तारे जिबिकाख्ये नारकोत्सेधस्त्रयोदश दंडा एको हस्तस्त्रयोविंशत्यगुलानि पंचैकादश भागाश्च । नवमप्रस्तारे लोलाख्ये नारकोत्सेधश्चतुर्दश दंडा एकोनविंशतिरंगुलानां सप्तैकादशभागाश्च । दशमप्रस्तारे लोलुपाख्ये नारकोत्सेधश्चतुर्दश धनूंषि त्रयो हस्ताः पंचदशांगुलानि नवैकादश भागाश्च । एकादशप्रस्तारे स्तनलोलुपनामधेये नारकशरीरोत्सेधः पंचदश दंडा द्वौ हस्तौ द्वादशांगुलानि चेति ॥ १५ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy