________________
पर्याप्त्यधिकारः।
तृतीयायां वालुकाप्रभायां नारकोत्सेधं व्यावर्णयन्नाह;तदियाए पुढवीए णेरइयाणं तु होइ उस्सेहो। एकत्तीसं च धणू एंगा रदणी मुणेयव्वा ॥ १६ ॥
तृतीयायां पृथिव्यां नारकाणां तु भवत्युत्सेधः। एकत्रिंशच धनूंषि एका रनिमन्तव्या ॥ १६ ॥
टीका-तदियाए-तृतीयायां, पुढवीए-पृथिव्यां वालुकाख्यायां, णेर'इयाणं-नारकाणां,तु-विशेषः होइ-भवति, उस्सेहो-उत्सेधः, एकत्तीसं चएकत्रिंशच्च एकेनाधिका त्रिंशत्, धणु-धनूंषि, एगा-एका, रदणी-रनिर्हस्तः मुणेयव्वा-ज्ञातव्या । तृतीयायां पृथिव्यां नवमप्रस्तारे नारकाणामुत्सेधो 'धनुषामेकत्रिंशदेका रत्निश्च ज्ञातव्या इति । शेषं सूचितं नारकप्रमाणमत्रापि मुखभूमिविशेषं कृत्वा नवोत्सेधभंजितमिच्छया गुणितं द्वितीयपृथिव्युत्कृष्टनारकोत्सेधमुखसहितं च कृत्वा नेयं । तद्यथा-प्रथमप्रस्तारे तप्ताख्ये नारकोत्सेधः सप्त दंडा एको हस्तो दशांगुलानि द्वौ त्रिभागौ च । द्वितीयप्रस्तारे तापनामनि नारकोत्सेधो दंडानामेकोनविंशतिर्नवांगुलानि त्रिभागश्च । तृतीयप्रस्तारे तपननाम्नि नारकोत्सेधो विंशतिर्दण्डास्त्रयो हस्ता अंगुलानि चाष्टौ । चतुर्थप्रस्तारे तापनारल्ये शरीरोसेधो द्वाविंशतिर्धनुषां द्वौ हस्तौ षडंगुलानि द्वौ त्रिभागौ च । पंचमप्रस्तारे निदाघाख्ये चतुर्विंशतिचापाः पंचांगुलानि एको इस्तस्त्रिभागश्चैकः । षष्ठप्रस्तारे प्रज्वलिताख्ये नारकोत्सेधः षड्विंशतिर्धनुषां चत्वारि चांगुलानि । सप्तमेंद्रके ज्वलितसंज्ञके नारकोत्सेधः सप्तविंशतिचापास्त्रयो हस्ता द्वे अंगुले त्रिभागौ च द्वौ । अष्टमप्रस्तारे संज्वलनेंद्रके एकोनत्रिंशदुत्सेधो धनुषां हस्तद्वयमेकांगुलमेकस्त्रिभागश्च । नवमे च प्रस्तारे एकत्रिंशत्कोदंडा हस्तश्चैको नारकोत्सेध इति ॥ १६ ॥