SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८६ मूलाचारे चतुर्थ्यां च पृथिव्यां नारकशरीरप्रमाणमाह;चउथीए पुढवाए णरइयाणं तु होइ उस्सेहो । बासट्ठी चेव धणू वे रदणी होति णायव्वा ॥ १७ ॥ चतुर्थ्यां पृथिव्यां नारकाणां तु भवत्युत्सेधः। द्वाषष्टिः चैव धनूंषि द्वे रत्नी भवतो ज्ञातव्ये ॥ १७ ॥ टीका-चउथीए-चतुर्णा पूरणी चतुर्थी तस्यां चतुर्थ्या, पुढवीएपृथिव्यां पंकप्रभायां, नारकाणामुत्सेधो भवति द्वाभ्यामधिका षष्टिर्धनुषां दे च रत्नी द्वौ च हस्तौ ज्ञातव्यौ । चतुर्थपृथिव्यां सप्तमप्रस्तारेंद्रके नारकोत्सेधप्रमाणमेतत् सेंद्रका नारकोत्सेधस्तृतीयपृथिवीनारकाणामुत्कृष्टशरीरप्रमाणं. मुखं कृत्वा सप्तमोत्सेधः सप्तमप्रस्तारनारकोत्सेधं भूमिं च कृत्वा तयोविशेष चोत्सेधभाजितेच्छागुणितं मुखसहितं कृत्वा वाच्यस्तद्यथा-प्रथमप्रस्तारे आरसंज्ञकेंद्रके पंचत्रिंशद्धनुषां द्वौ हस्तौ विंशतिरंगुलानां सप्तभागाश्चत्वारः । द्वितीयप्रस्तारे ताराख्येंद्रके चत्वारिंशदंडाः सप्तदशांगुलानि सप्तभागाश्च पंच । तृतीयप्रस्तारे मारसंज्ञके चतुश्चत्वारिंशदंडाः द्वौ हस्तौ त्रयोदशांगुलानि सप्तभागाश्च पंच । चतुर्थप्रस्तारे वर्चस्काख्ये नारकोत्सेध एकोनपंचाशद्धनुषां दशांगुलानि द्वौ च सप्तभागौ । पंचमप्रस्तारे तमकनामधेये धनुषां त्रिपंचाशत् द्वौ च हस्तौ षडंगुलानि षट् सप्तभागाः । षष्ठप्रस्तारे षडनामधेये नारकोत्सेधो धनुषामष्टापंचाशत् त्रीण्यंगुलानि त्रयश्च सप्तभागाः । सप्तमप्रस्तारे षडषडाख्येंद्रके नारकोसेधश्चोक्तो द्वाषष्टिर्धनुषां हस्तौ च द्वाविति ॥ १७ ॥ पंचमपृथिव्यां नारकोत्सेधं प्रकटयन्नाह;पंचमिए पुढवीए रइयाणं तु होइ उस्सेहो । सदमेगं पणवीसं घणुप्पमाणेण णादव्वं ॥ १८ ॥ पंचम्यां पृथिव्यां नारकाणां तु भवत्युत्सेधः। शतमेकं पंचविंशतिः धनुःप्रमाणेन ज्ञातव्यं ॥ १८॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy