________________
पर्याप्यधिकारः।
१८७
टीका-पंचमायां पृथिव्यां धूमप्रभानामधेयायां नारकाणामुत्सेधो भवति, सदं-शतमेकं, पणवीसं च-पंचविंशत्यधिकं, धणुप्पमाणेण-धनु:प्रमाणेन ज्ञातव्यं । पंचमायां पृथिव्यां पंचमेंद्रके नारकाणामुत्सेधो धनुषां प्रमाणेन शतमेकं पंचविंशत्युत्तरं ज्ञातव्यामिति । अत्राप्येतद्भूमिं पूर्वोक्तं मुखं च कृत्वा विशेषं च कृत्वा विशेषं च पंचकोत्सेधभाजितमिच्छया गुणितं मुखसहितं कृत्वा शेषेद्रकाणां नारकाणामुत्सेधो वाच्यः । तत्र प्रथमप्रस्तारे तमोनाम्नि नारकोत्सेधः पंचसप्ततिदंडाः । द्वितीयप्रस्तारे भ्रमनामके नारकोत्सेधः सप्ताशीतिदंडार्दो हस्तौ च । तृतीयप्रस्तारे रूपसंज्ञके चंद्रके नारकोत्सेधो धनुषां शतमेकं । चतुर्थप्रस्तारेऽन्वयसंज्ञके नारकोत्सेधो धनुषां द्वादशोत्तरं शतं हस्तद्वयं च । पंचमप्रस्तारे तमिस्रसंज्ञके धनुषां पंचविंशत्युत्तरशतमिति ॥ १८॥
षष्ठयां पृथिव्यां नारकोत्सेधमाह;छट्ठीए पुढवीए रइयाणं तु होइ उस्सेहो । दोण्णि सदा पण्णासा धणुप्पमाणेण विण्णेया ॥१९॥
षष्ठयां पृथिव्यां नारकाणां तु भवत्युत्सेधः । द्वे शते पंचाशत् धनुः प्रमाणेन विज्ञेये ॥ १९॥ टीका-छटीए-षण्णां पूरणी षष्ठी तस्यां, पुढवीए-पृथिव्यां, णेरइयाणं तु-नारकाणां तु, होदि-भवति, उस्सेहो-उत्सेधः, दोणि सदा-दे शते धनुषां शतद्वयं, पण्णासा-पंचाशदधिकं, धणुप्पमाणेण–धनुषां प्रमाणेन, विष्णेया-विज्ञेये। षष्ठयां पृथिव्यां तम:प्रभायां तृतीयप्रस्तारे नारकाणामुत्सेधो धनुषां प्रमाणेन द्वे शते पंचाशदधिके विज्ञेये। अत्रापि मुखभूमिविशेषादिक्रमं कृत्वा शेषेद्रकनारकाणामुत्सेध आनेयस्तद्यथा तमःप्रभायां प्रथमप्रस्तारे हिमनाम्नन्द्रिके नारकाणामुत्सेधः षट्पष्टयाधिकं धनुषां शतं द्वौ हस्तौ षोडशांगुलानि च । द्वितीये प्रस्तारे वर्दलनाम्नीन्द्रके धनुषां शतद्वयमष्टाधिकं