________________
१८८
मूलाचारे
हस्तश्चैकोऽष्टावंगुलान्यपि । तृतीयप्रस्तारे लल्लकनामेंद्रके नारकोत्सेधः सूत्रोपात्तधनुषां शतद्वयं पंचाशदधिकं विज्ञेयमिति ॥ १९ ॥
सप्तम्यां पृथिव्यां नारकोत्सेधप्रमाणमाह;-सत्तमिए पुढवीए णेरइयाणं तु होइ उस्सेहो । पंचेव धणुसयाई पमाणदो चेव बोधव्या ॥२०॥
सप्तम्यां पृथिव्यां नारकाणां तु भवति उत्सेधः । पंचैव धनुःशतानि प्रमाणतश्चैव बोद्धव्यानि ॥ २० ॥
टीका-सत्तमिए-सप्तम्यां, पुढवीए-पृथिव्यां महातमःप्रभायां, णेरइयाणं तु-नारकाणां तु, होइ-उत्सेहो भवत्युत्सेधः, पंचेव धणुसयाई-पंचैव धनुःशतानि, पमाणदो चेव-प्रमाणतश्चैव नान्यत्, बोधव्वा-बोद्धव्यानि । सप्तम्यां महातमप्रभायामवधिस्थानकेंद्रकनामनि नारकाणामुत्सेधः प्रमाणतः पंचैव धनुःशतानि नाधिकानीति । एवं सर्वासु पृथिवीषु स्वकीयेंद्रकप्रतिबद्धेषु श्रेणिविश्रेणिबद्धेषु पुष्पप्रकीर्णकेषु च_नारकाणामुत्सेधः स्वकीयेंद्रकनारकोत्सेधसमानो वेदितव्यः । प्रथमायां पृथिव्यां प्रथमप्रस्तारे समितकेंद्रकनाम्नि महादिक्षु श्रेणीबद्धनरकाण्येकोनपंचाशदेकोनपंचाशदिति । विदिक्षु चाष्टचत्वारिंशदष्टचत्वारिंशदिति । एवमष्टावष्टौ हानि कृत्वा तावन्नेतव्यं यावदवधिस्थानस्य चत्वारि दिक्षु श्रेणिबद्धानीति । प्रथमायां पृथिव्यां त्रिंशल्लक्षाणि नारकाणां तान्येव श्रेणिबद्धेन्द्रकरहितानि 'पुष्पप्रकीर्णकानि । द्वितीयायां पंचविंशतिलक्षा नारकाणां तान्येव श्रेणिबढ्द्रकरहितानि पुष्पप्रकीर्णकानि । तृतीयायां पंचदशलक्षा नारकाणां । चतुर्थ्यां दशलक्षा नारकाणां । पंचम्यां लक्षत्रयं नारकाणां । षष्ठयां पंचोनं लक्ष नारकाणां । सप्तम्यां पंचैव नारकाणि । सर्वत्र श्रेणिबद्धंद्रकरहितपुष्पप्रकीर्णाकानीति प्रमाणं व्यावर्णितं देहोऽपि व्यावर्णितस्तदव्यतिरेकाद्गुणगुण्यभेदेन ततो न दोषो देहस्वरूपमकथित्वा प्रमाणस्य कथने ।