________________
पर्याप्त्यधिकारः।
१८९
नारकाणां शरीरं बीभत्सं दुर्गधि वैक्रियकं सर्वाशुभपुद्गलैनिष्पन्नं सर्वदुःखकारणं हुंडकसंस्थानमशुभनाम दुःस्वरवदनं कृमिकुलादिसंकीर्णमिति ॥२०॥
देवानां शरीरं व्यावर्णितं न तत्प्रमाणमतस्तदर्थमाह;पणवीसं असुराणं सेसकुमाराण दस धणू चेव । वितरजोइसियाणं दस सत्त धणू मुणेयव्वा ॥ २१ ॥
पंचविंशतिरसुराणां शेषकुमाराणां दश धषि चैव। व्यंतरज्योतिष्काणां दश सप्त धनूंषि ज्ञातव्यानि ॥२१॥
टीका-भवनवासिव्यंतरज्योतिष्ककल्पवासिभेदेन देवाश्चतुर्विधा भवंति। तत्र भवनवासिनां तावत्प्रमाणं व्यावर्णयति-पणवीसं-पंचभिरधिका विंशतिः पंचविंशतिः, असुराणं-असुरकुमाराणां, सेसकुमाराण-शेषकुमाराणां नागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्दीपदिक्कुमाराणां, दस धणू-दश दंडाः । चशब्दः समुच्चयार्थस्तेन सामानिकत्रायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकानामेतदेव प्रमाणं शरीरस्य वेदितव्यं । व्यंतराः किंनरकिंपुरुषगरुडगंधर्वयक्षराक्षसभूतापशाचाः, जोदिसिया-ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च, व्यंतराश्च ज्योतिष्काश्च व्यंतरज्योतिष्कास्तेषां व्यंतरज्योतिष्काणां, दस सत्त धणू-दश सप्त धनूंषि यथासंख्येन व्यंतराणां दश धनूंषि ज्योतिष्काणां च सप्त धनूंषि सामानिकत्रायस्त्रिंशल्लोकपालवर्जितशेषनिकायानां च शरीरस्योत्सेधो ज्ञातव्य इति । भवनवासिनो दशप्रकारा भवंति-तत्र प्रकारस्यातुरकुमारसंज्ञकस्य सामानिकादिसहितस्य शरीरोत्सेधः पंचविंशतिर्धनुषामुत्कृष्टः, नागकुमाराणां विद्युत्कुमाराणां सुपर्णकुमाराणामग्निकुमाराणां वातकुमाराणां स्तनितकुमाराणामुदधिकुमाराणां द्वीपकुमाराणां दिक्कुमाराणां सामानिकादिभेदभिन्नानां च दश दंडाः शरीरस्योत्सेधः । व्यंतराणामष्टप्रकाराणां स्वभेदभिन्नानां दश धनूंषि शरीरस्योत्सेधः । ज्योतिष्काणां च पंचप्रकाराणां स्वभेदभि-. नानां सप्त दंडाः शरीरस्योत्सेधो ज्ञातव्य इति ॥ २१ ॥