SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९० मूलाचारे एते तिर्यग्लेोके व्यवस्थितास्तद्वारेणैव तिरवां च वक्ष्यमाणत्वादुलंघ्य प्रमाणं मनुष्याणां तावदुत्कृष्टं प्रमाणमाह;छन्द्वणुसहसुस्सेधं चदु दुगमिच्छति भोगभूमीसु पणवीस पंचसदा बोधव्त्रा कम्मभूमीसु ॥ २२ ॥ षट्धनुःसहस्रोत्सेधं चत्वारि द्वे इच्छंति भोगभूमिषु । पंचविंशतिः पंचशतानि बोद्धव्यानि कर्मभूमिषु ॥ २२ ॥ टीका - छद्वणुसहस्स - षट् धनुषां सहस्राणि उस्सेधं - उत्सेधं शरीरप्रमाणं, चदु- चत्वारि सहस्राणि धनुष, दुर्ग-द्वे सहस्रे धनुषां, इच्छंति - अभ्युपगच्छंतिः, पूर्वाचार्या भोगभूमिषु दशप्रकारकल्पपादपोपलक्षितासु । पणवीसं - पंचविंशतिः, पंचसदा-पंचशतानि च धनुषां बोधव्वाबोद्धव्यानि ज्ञातव्यानि कर्मभूमिषु । पंचसु भरतैरावतविदेहेषु भोगभूमिषूत्कृष्टमध्यमजघन्यासु मनुष्याणामुत्सेधं यथासंख्येन षट् चत्वारि सहस्राणि द्वे च हस्ते (सहस्रे ) धनुषामिच्छंति, कर्मभूमिषु च मनुष्याणामुत्कृष्टमुत्सेधं शतपंचकं पंचविंशत्यधिकमिच्छंतीति ॥ २२॥ प्राधान्याद्देवानां कल्पवासिनां तावदुत्सेधमाह; - सोहम्मीसाणे य देवा खलु होंति सत्तरयणीओ । छच्चैव य रयणीओ सणक्कुमारे हि माहिंदे || २३ | सौधर्मेशानयोश्च देवाः खलु भवंति सप्त रत्नयः । षद्र चैव च रत्नयः सनत्कुमारे हि माहेंद्रे ॥ २३ ॥ टीका - सोहम्मीसाणेसु य-सुधर्मा नाम्नी सभा तस्यां भवः सौधर्म इन्द्रस्तेन सहचरितं विमानं कल्पो वा, सौधर्मश्चैशानश्च सौधर्मैशानौ तयोः सौधर्मेशानयोः श्रेणिबद्धप्रकीर्णक सहितयोः, देवा देवा इंद्रसामानिकायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाः, खलु - स्फुटं, सत्तरयणीओ - सप्त हस्ताः छच्चेव - षडेव च, रयणीओ ,
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy