________________
पर्याप्त्यधिकारः।
१९१
रत्नयो हस्ताः, सणक्कुमारे-सनत्कुमारे च, माहिंदे-माहेंद्रे। सौधर्मेशानयोः कल्पयोर्देवा इंद्रादयः शरीरप्रमाणेन सप्तहस्ता भवंति, सनत्कुमारमाहेंद्रयोश्च कल्पयोश्च देवा इंद्रादयः षट्ररत्नयः प्रमाणेन भवंतीति ॥ २३ ॥ ___ शेषकल्पेषु देवोत्सेधं प्रतिपादयन्नाह;बंभे य लंतवे वि य कप्पे खलु होंति पंच रयणीओ। चत्तारि य रदणीओ सुक्कसहस्सारकप्पेसु ॥ २४ ॥ ब्रह्मे च लांतवेऽपि च कल्पे खलु भवंति पंचरत्नयः । चतस्रश्च रत्नयः शुक्रसहस्रारकल्पेषु ॥ २४ ॥ टीका-बी-ब्रह्मकल्पे, लंतवे वि य-लांतवकल्पे, कल्पशब्दः प्रत्येकमभिसंबध्यते । खलु-स्फुटं व्यक्तं सर्वमेतत्, होंति-भवंति-पंच रयणीओपंच रत्नयः । दनाद्रव्यनुवर्त्ततो (?) तेन सह संबंधः सर्वत्र द्रष्टव्यः । चत्तारि य-चतस्रश्च रदणीओ-रत्नयो हस्ताः,सुक्क-शुक्रकल्पे, सहस्सारसहस्रारकल्पे, अत्रापि कल्पशब्दः प्रत्येकमभिसंबध्यते । उपलक्षणमात्रमेतत्तेनान्येषामपि ब्रह्मोत्तरकापिष्ठमहाशुक्रशतारसहस्रारकल्पानां ग्रहणं द्रष्टव्यं । श्रेणिबद्धप्रकीर्णकानां च । बह्मब्रह्मोत्तरलांतवकापिष्ठेषु च चतुर्षु कल्पेषु देवा इंद्रादयः पंचहस्ताः प्रमाणेन भवंति, तथा शुक्रमहाशुक्रशतारसहस्रारेषु च चतुर्षु कल्पेषु देवा इंद्रसामानिकादयश्च चत्वारो हस्ताः शरीरप्रमाणेन भवंतीति ॥ २४ ॥ - आनतादिदेवप्रमाणमाह;आणदपाणदकप्पे अद्धद्धाओ हवंति रयाओ। तिण्णेव य रयणीओ बोधव्वा आरणच्चुदे चापि ॥२५॥
आनतप्राणतकल्पयोरर्दाधिका भवंति रत्नयः। तित्र एव च रत्नयः बोद्धव्या आरणाच्युतयोश्चापि ॥२५॥