SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९२ मूलाचारे टीका- आणद - आनतकल्पे, पाणद-प्राणतकल्पे, कल्पशब्दः प्रत्येकमभिसंबध्यते, अद्धद्धाओ - अर्द्धाधिकास्तिस्रो रत्नयस्त्रयो हस्ता हस्तार्द्धं च, हवंति - भवंति, रयणीओ रत्नयः । तिण्णेव तिस्रश्व, रयणीओ - रत्नयः, बोद्धव्या ज्ञातव्याः, आरणच्चदे चावि - आरणाच्युतयोरपि आरणकल्पेऽच्युतकल्पे च आनतप्राणतकल्पयोर्देवा इंद्रादयस्त्रयो हस्ता अर्द्धाधिकाः शरीरप्रमाणेन बोद्धव्याः, आरणाच्युतकल्पयोश्व देवा इंद्रादयस्त्रयो हस्ता: शरीरप्रमाणेन बोद्धव्या इति ॥ २५ ॥ नवग्रैवेयक देवशरीरं प्रतिपादयन्नाह ;मिगेवज्जेसु य अड्डाइज्जा हवंति रयणीओ । मज्झिमवज्जेसु य वे रयणी होंति उस्सेहो ॥ २६ ॥ अधस्तनयैवेयकेषु च सार्धद्वयं भवंति रत्नयः । मध्यमग्रैवेयकेषु च द्वे रत्नी भवतः उत्सेधः ॥ २६ ॥ टीका- हेट्रिमगेवज्जेसु य-अधोग्रैवेयकेषु अधो व्यवस्थिता वै ये त्रयो ग्रैवेयककल्पास्तेषु, अड्ढाइज्जा - अर्द्धाधिकं रत्निद्वयं तृतीयार्द्धसहिते रत्नी वा भवतः, मज्झिमगेवज्जेसु य-मध्यमग्रैवेयकेषु च मध्यमप्रदेशस्थितेषु त्रिषु ग्रैवेयकेषु, वेरदणी-दे रत्नी द्वौ हस्तौ हवंति - भवतः, उस्सेहो - उत्सेधः शरीरप्रमाणं | नव ग्रैवेयककल्पा भवंति तत्राधोध एकः कल्पः अधोमध्यमो द्वितीयः कल्पः अधउपरि तृतीयः कल्पस्तेषु कल्पेषु त्रिषु देवा अहमिंद्रा अर्द्धाधि हस्तौ प्रमाणेन भवंति, तथाऽधोमध्यमः कल्प एकः मध्यमध्यमकल्पो द्वितीयः मध्यमोपरि कल्पस्तृतीय एतेषु त्रिषु कल्पेषु देवा अहमंद्रा द्विहस्तोत्सेधा भवतीति ॥ २६ ॥ > उपरिमग्रैवेयकदेवशरोरोत्सेधमनुत्तरदेवोत्सेधं चाह; — उवरिमवज्जेसु य दिवङ्करयणी हैवे य उस्सेहो । अणुदिसणुत्तरदेवा एया रयणी सरीराणि ॥ २५॥ १ भवेय ग - ! - पुस्तके |
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy