SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः । उपरिमयैवेयकेषु च द्व्यर्धरत्निर्भवेत् च उत्सेधः । अनुदिशा नुत्तरदेवा एकरत्निशरीराः ॥ २७॥ १९३ टीका – उवरिमगेवज्जेसु य — उपरिमग्रैवेयकेषूपरिप्रदेशव्यवस्थितेषु त्रिषु ग्रैवेयककल्पेषु, दिवड्ढरयणी - अर्द्धाधिकरत्निः हस्तोपरं च हस्तार्द्ध, हवे य· - भवेत्, उस्सेहो - उत्सेधः । उपर्यध एकः कल्पः, उपरिममध्यमो द्वितीयः कल्पः, उपर्युपरि तृतीयः कल्यः, एतेषु त्रिषु ग्रैवेयककल्पेषु देवानां शरीरोत्सेध एको हस्तो हस्तार्द्धं च । यद्यपि सविकल्पा विद्यतेऽत आगमतस्ते ज्ञातव्या इति । अणुदिस - अनुदिशकल्पे नवसु विमानेषु, अणुत्तरअनुत्तरकल्पे च पंचसु विमानेषु देवा अहमिंद्रा, एगा रयणी सरीराणिएकरत्निशरीरा एकहस्तदेहप्रमाणाः, अनुदिशानुत्तरकल्पयोश्चतुर्दशविमानेषु देवा एक हस्तशरीरोत्सेधा भवतीति ॥ २७ ॥ देवमनुष्यनारकाणां प्रमाणपूर्वक देहस्वरूपं प्रतिपाय तिरश्चामेकेन्द्रियादिपंचेंद्रियपर्यन्तानां शरीरोत्सेधद्वारेण जघन्यदेहमाह; - भागमसंखेज्जदिमं जं देहं अंगुलस्स तं देहं । एइंदियादिपंचेंदियंत देहं पमाणेण ॥ २८ ॥ भागोऽसंख्यातकः यो देहोंऽगुलस्य स देहः । एकेंद्रियादिपंचेंद्रियांतदेहः प्रमाणेन ॥ २८ ॥ ---- टीका - भागं - भागः, असंखेज्जदिमं - असंख्यातः, जं देहं – य उपचयो यावत्पिंडोः यत्परिमाणोऽगुलस्य द्रव्यांगुलस्य, तं देहं - स उपचयस्तावान्पिडस्तत्परिमाणः । एइंदियादि - एकेन्द्रिय आदिर्येषां ते एकेन्द्रियादयः, पंचेदियंत-पंचेन्द्रियोंते येषां ते पंचेद्रियांताः । एकेन्द्रियादयश्च ते पंचेद्रियांताश्चै केन्द्रियादिपंचेन्द्रियांतास्तेषां देहः शरीरमेकेन्द्रियादिपंचेंन्द्रियांतदेहः, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेंद्रियाणां शरीरं, जहण्णेणद्रव्यांगुलमसंख्यातखंडं कृत्वा तत्रैकखंडोपचयो यावान् देहो यन्मात्रस्तन्मात्रो देहः शरीरं जघन्येनै केन्द्रियादिपंचेन्द्रियपर्यंतानामिति ॥ २८ ॥ १३
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy