SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९४ मूलाचारे तेषामेवोत्कृष्टप्रमाणं प्रतिपादयन्नाह;साहियसहस्समेयं तु जोयणाणं हवेज उक्कस्सं । एयंदियस्स देहं तं पुण पउमात्त णादव्वं ॥ २९ ॥ साधिकसहस्रमेकं तु योजनानां भवेत् उत्कृष्टः । एकेंद्रियस्य देहः स पुनः पद्ममिति ज्ञातव्यं ॥२९॥ टीका–साहिय-सहाधिकेन वर्तत इति साधिकं सक्रोशद्वयं, सहस्समेयं तु-सहस्रमेकं तु एकं एकसहस्रं,जोयणाणं-योजनानां,हवेज्ज-भवेत् ,उक्कस्संउत्कृष्टः । एइंदियस्स-एकेन्द्रियस्य, देहं-देहः शरीरं, तं पुण-स पुनः, पउमत्ति णायव्वं-पद्ममिति ज्ञातव्यं । तेन पृथिवीकायादिवायुकायांतानां त्रसानां चैतावन्मात्रस्य देहस्य निराकरणं द्रष्टव्यं । योजनानां सहस्रमेकं साधिकं च तन्मात्र एकेन्द्रियस्य देहः स पुमदेहो वनस्पतिसंज्ञकस्य पद्मास्य ज्ञातव्यः । प्रमाणप्रमाणवतोरभेदं कृत्वा निर्देश इति ॥ २९॥ द्वीन्द्रियादीनामुत्कृष्टदेहप्रमाणमाह;संखो पुण वारसजोयणाणि गोभी भवे तिकोसं तु । भमरो जोयणमेत्तं मच्छो पुण जोयणसहस्सं ॥३०॥ शंखः पुनादशयोजनानि गोभी भवेत् त्रिकोशं तु । भ्रमरो योजनमात्रः मत्स्यः पुनर्योजनसहस्रः ॥ ३०॥ टीका-संखो पुण-शंखः पुनर्दीन्द्रियः, वारसजोयणाणि-दादशयोजनानि द्वादशयोजनो वा, गोभी-गोपालिका खजूरको वा, भवे-भवेत् , तिकोसं तु-त्रिकोशं तु त्रिकोशमात्रस्त्रीन्द्रियः, भमरो-भ्रमरो मधुकरश्चतुरिन्द्रियः, जोयणमेत्तं—योजनमात्रं गव्यूतिचतुष्टयमात्रः, मच्छो-मत्स्यः, पुण-पुनः, जोयणसहस्सं-योजनसहस्रः। द्वीन्द्रियाणां मध्ये उत्कृष्टदेहः शंखः १ वनस्पति कायस्य पद्मसंज्ञकस्य ग. । २ प्रमाणः ग. ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy