________________
१७४
मूलाचारे
उववादो उट्टण ठाणं च कुलं च अप्पबहुलो य । डिट्ठिदिअणुभाग पदेसबंधो य सुत्तपदा ॥
३ ॥
पर्याप्तयो देहोपि च संस्थानं कायेंद्रियाणां च । योनय आयुः प्रमाणं योगो वेदश्च लेश्या प्रविचारः ॥ २ ॥ उपपाद उद्वर्तनं स्थानं च कुलानि च अल्पबहुत्वं च । . प्रकृतिस्थित्यनुभागप्रदेशबंधश्च सूत्रपदानि ॥ ३ ॥
टीका - पज्जत्ती - पर्याप्तय आहारादिकारणनिष्पत्तयः । देहो वि यदेहोऽपि चौदारिकवैक्रियिकाहारकवर्गणागतपुद्गलपिंडः करचरणशिरोग्रीवाद्यवयवैः परिणतो वा अपि चान्यदपि । संठाणं - संस्थानमवयवसन्निवेशविशेषः । केषामिति चेत् कायेंद्रियाणां च कायानां च पृथिवीकायादिकानां श्रोत्रादीन्द्रियाणां च कायानां संस्थानमिंद्रियाणां च । जोणी - योनयो जीवोत्पत्तिस्थानानि । आउ - आयुर्नरकादिगतिस्थितिकारणपुद्गलप्रचयः । प्रमाण - प्रमाणमुत्सेधायामविस्ताराणामियत्ता, चायुषोऽन्येषां च देहादीनां वेदितव्यं । जोगो - योगः कायवाङ्मनस्कर्म | वेदो य- वेदश्व मोहनीयकर्मविशेषः स्त्रीपुरुषाद्यभिलाषहेतुः । लेस - लेश्या कषायानुरंजिता योगप्रवृत्तिः । पविचारो - प्रवीचारः स्पर्शनेंद्रियाद्यनुरागसेवा, उववादो - उपपादः अन्यस्मादागत्योत्पत्तिः । उव्वट्टण - उद्वर्त्तनं अस्मादन्यत्रोत्पत्तिः । ठाणंस्थानं जीवस्थानगुणस्थानमार्गणास्थानानि । कुलं च कुलानि जातिभेदाः । अप्पबहुगो च- अल्पबहुत्वं च । पयडि - प्रकृतिर्ज्ञानावरणादिस्वरूपेण पुद्गलपरिणामः । ठिदि–स्थितिः पुहलानां कर्मस्वरूपमजहतामवस्थितिकालः, अणुभाग - अनुभागः कर्मणां रसविशेषः । पदेस - प्रदेशः कर्मभावपरिणत - -पुद्गलस्कंधानां परमाणुपरिच्छेदेनावधारणं, बंधो-बंधः परवशीकरणं जीवपुद्गलप्रदेशांनुप्रदेशेन संश्लेषशब्दः प्रत्येकमभिसंबध्यते । प्रकृतिबंधः स्थिति१ तः ख ग । २ जीवपुद्गलप्रदेशानुप्रवेशानुप्रवेशेन ख- म ।