________________
पर्याप्त्यधिकारः ।
१७३
पर्याप्त्यधिकारः।
are शीलगुणाधिकारं व्याख्याय सर्वसिद्धांतकरणचरणसमुच्चयस्वरूपं द्वादशाधिकारं पयााख्यं प्रतिपादयन् मंगलपूर्विकां प्रतिज्ञामाह;काऊण णमोकारं सिद्धाणं कम्मचकमुकाणं । पज्जत्तीसंगहणी वोच्छामि जहाणुपुवीयं ॥१॥ . कृत्वा नमस्कारं सिद्धेभ्यः कर्मचक्रमुक्तेभ्यः। . पर्याप्तिसंग्रहिणीः वक्ष्ये यथानुपूर्वम् ॥ १॥
टीका~-काऊण-कृत्वा । णमोक्कारं-नमस्कारं शुद्धमनोवाक्कायप्रणामं । सिद्धाणं-सिद्धानां सर्वलेपविनिर्मुक्तानां अथवा सर्वसिद्धभ्यः प्राप्ताशेषसुखभ्यः । कम्मचक्कमुक्काणं-कर्मचक्रमुक्तानां चक्रमिव चक्रं कर्मनिमित्तं यच्चतुर्गतिपरिभ्रमणं तेन परिहीणानां कर्मचक्रविप्रमुक्तेभ्यो वा संसारान्निर्गतेभ्यः । पज्जत्ती-पर्याप्तीराहारादिकारणसंपूर्णताः । संगहणीसर्वाणि सिद्धांतार्थप्रतिपादकानि सूत्राणि संगृहंतीति संग्रहिण्यस्ताः संग्रहिणीहीताशेषतत्वार्थाः । अथवा पर्याप्तिसंग्रहं पर्याप्तिसंक्षेपं पर्याप्त्यधिकारं वा सर्वनियोगमूलभूतं । वोच्छामि-वक्ष्ये विवृणोमि । जहाणुपुवीयंयथानुपूर्व यथाक्रमेण सर्वज्ञोक्तागमानुसारेण, न स्वमनीषिकया। कर्मचक्रविनिर्मुक्तेभ्यः सिद्धेभ्यः सिद्धानां वा नमस्कारं कृत्वा यथानुपूर्व पर्याप्तीः संग्र-. हिणीः वक्ष्य इति ॥ १॥
प्रतिज्ञार्थं निर्वहन्नाचार्यः पर्याप्त्युपलक्षितरयाधिकारस्य संग्रहस्तकगाथाद्वयमाह;पज्जत्ती देहो वि य संठाणं कायइंदियाणं च । जोणी आउ पमाणं जोगो वेदो य लेस पविचारो॥२॥
१ विप्रमुक्तेभ्यः ख-ग । २ संग्रहसूत्रसूचकगाथा• ख-ग ।