SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९६ मूलाचारे चक्षुरिंद्रियेण द्रव्यांतरस्य । निर्णयेन ग्रहणं ध्रुवावग्रहस्तद्विपरीतोऽध्रुवावग्रहः । एवमीहादीनामपि द्वादशभेदा ज्ञातव्याः । “ यथा चक्षुरिंद्रियस्याष्टचत्वारिंशद्भेदास्तथा पंचानामिंद्रियाणां षष्ठस्य मनसश्चैवमष्टाशीत्युत्तरदिशतभेदा भवंति तेषु व्यंजनावग्रहस्याष्टचत्वारिंशद्भेदानां मिश्रणे कृते सति षट्रिंशदुत्तरत्रिशतभेदा आभिनिवोधिकस्य ज्ञानस्य भवंति " ज्ञानभेदादावरणस्यापि भेदो द्रष्टव्य इति । अतज्ञानमपि पर्यायादिभेदेन विंशतिभेदं । पर्यायः, पर्यायसमासः अक्षरं, अक्षरसमासः, पदं, पदसमासः संघातः संघातसमासः प्रतिपत्तिः, प्रतिपत्तिसमासः, अनियोगः, अनियोगसमासः, प्राभृतकः, प्राभृतकसमासः, प्राभृतकप्राभृतकः, प्राभृतकप्राभृतकसमासः, वस्तुः, वस्तुसमासः, पूर्व, पूर्वसमासः । तत्राक्षराणां भावादक्षरं केवलज्ञानं तस्यानंतभागः पर्यायलव्ध्यक्षरसंज्ञकं केवलज्ञानमिव निरावरणं सूक्ष्मनिगोदस्य तदपि भवति तत्स्वकीयानंतभागेनाधिकं पर्यायसंज्ञकं भवति ज्ञानं तस्मादुत्पन्नं श्रुतमपि पर्यायसंज्ञकं कार्य कारणोपचारात् । ततस्तदेवानंतभागेन स्वकीयेनाधिकं पर्यायसमासः । एवमनंतभागासंख्यातगुणानंतगुणवृद्ध्या चैकाक्षरं भवति वृद्धीरीदृशीः असंख्यातलोकमात्राः षड्बृद्धीरतिक्रम्य पर्यायाक्षरसमासस्य सर्वपाश्चमो विकल्पो भवति तदनंतभागाधिकमक्षरं नाम श्रुतज्ञानं भवति । कथं १ द्रव्यश्रुतप्रतिवद्धैकाक्षरोत्पन्नस्योपचारेणाक्षरव्यपदेशात् । तस्योपर्येकाक्षरे वृद्धिं गतेऽक्षरसमासः अक्षरस्यानंतभागे वा वृद्धि गतेऽक्षरसमासो भवति एवं यावत्पदं न प्राप्तं तावदक्षरसमासं । तस्योपर्येकाक्षरे वृद्धिं गते पदं षोडशशतचतुस्त्रिंशत्कोटीभिस्त्रयशीतिलक्षाधिकाभिरष्टसप्ततिशताधिकाभिरष्टाशीत्यक्षराधिकाभिश्चाक्षराणां गृहीताभिरेकं द्रव्यं श्रुतपदं तस्मादुत्पन्नज्ञानमप्युपचारेण पदसंज्ञकं श्रुतं । तस्योपर्येकाक्षरे वृद्धिं गते पदसमासः। एवमेकैकाक्षरवृद्धिक्रमेण यावत्संघातं १-" अस्माञ्चिह्नादारभ्य ” एतचिह्नान्त न वर्तते उपलब्धलिखितपुस्तके पाठः परंतु विज्ञायावश्यकं लिखितो मया। निवेदकः-इंद्रलालजैनः ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy