________________
पर्याप्त्यधिकारः।
२९५
तत्परि समंतादयत इति मनःपर्ययः । त्रिकालगोचरानंतपर्यायाणां अववोधः केवलं सर्वथा शुद्धः । ज्ञानशब्दः प्रत्येकमभिसंबध्यते । अभिनिवोधिकज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्ययज्ञानं, केवलज्ञानं चेति । आवरणशब्दोऽपि प्रत्येकमंभिसंवध्यते; आभिनिवोधिकज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणं चेति । एतेषां सर्वभेदानामावरणं ज्ञातव्यं । अभिनिबोधिकं ज्ञानमवग्रहहावायधारणामेदेन चतुर्विधं, विषयविषयिसन्निपातानंतरमवग्रहणमवग्रहः, सोऽप्यर्थव्यंजनावग्रहभेदेन द्विविधः, प्राप्तार्थग्रहणमवग्रहः यथा चक्षुरिन्द्रियेण रूपग्रहणं प्राप्तार्थग्रहणं व्यंजनावग्रहो यथा स्पर्शनेंद्रियेण स्पर्शग्रहणं । गृहीतस्यार्थस्य विशेषाकांक्षणमीहा योऽवग्रहेण गृहीतोऽर्थस्तस्य विशेषाकांक्षणं भवितव्यता प्रत्ययं यथा कंचित् दृष्ट्वा किमेषो भव्य उत अभव्यः भव्येन भवितव्यमिति विशेषाकांक्षणमीहा । ईहितस्यार्थस्य भवितव्यतारूपस्य संदेहापोहनमवायः भव्य एवायं नाभव्यः भव्यत्वाविनामाविसम्यग्दर्शनज्ञानचरणानामुपलंभात् । निर्णीतस्यार्थस्य कालांतरेष्वविस्मृतिर्धारणा यस्याज्ज्ञानात्कालांतरेऽप्यविस्मरणहेतुभूतो जीवे संस्कार उत्पद्यते तज्ज्ञानं धारणा । न चैतेषांमवग्रहादीनां चतुर्णा सर्वत्र क्रमेणैवोत्पत्तिस्तथानुपलंभात् ततः क्वचिदवग्रह एव, क्वचिदवग्रहो धारणा च, क्वचिदवग्रह ईहा च, क्वचिदवग्रहहावायधारणा इति । तत्र बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवसेतरभेदेनैकैको द्वादशविधः । तत्र बहूनामेकवारेण ग्रहणं बढवग्रहः युगपत्पंचांगुलिग्रहणवत् । बहुप्रकाराणां हस्त्यश्वगोमहिष्यादानां नानाजातीनां ग्रहणं बहुविधावग्रहः । एकजातिग्रहणमेकविधावग्रहः । आशु ग्रहणं क्षिप्रावग्रहः । चिरकालग्रहणमक्षिप्रावग्रहः । अभिमुखार्थग्रहणं निःसृतावग्रहः । अनभिमुखार्थग्रहणमनिःसृतावग्रहः । अथवोपमानोपमेयभावन ग्रहणं निःसृतावग्रहस्तद्विपरीतोऽन्यथा, यथा कमलदलनेत्रात्तद्विपरीतो वा । नियमितगुणविशिष्टार्थग्रहणमुक्तावग्रहः यथा चक्षुरिंद्रियेण धवलग्रहणं । अनियमितगुणविशिष्टद्रव्य ग्रहणमनुक्तावग्रहः यथा