SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२६ मूलाचारेmmmmm भ्यधिकाः, द्वितीयेंद्रके तारसंज्ञके सप्त समुद्राः सप्तभागैः षनिरभ्यधिकाः, तृतीयेंद्रके मारनाम्नि पयोधयोऽष्टौ सप्तभागाभ्यां द्वाभ्यामधिकाः, चतुर्थेद्रके बर्चस्कनाम्नि सागरा अष्टौ पंचभिः सप्तभागैरभ्याधिकाः, पंचमेंद्रके तमके नव सागराः सप्तभागेनाधिकाः, षष्ठंद्रके खरनाम्नि नव सागराश्चतुर्भिः सप्तभागैरभ्यधिकाः, सप्तमेंद्रके खडखडे उक्तान्येव दशसागरोपमाणि । पंचम्यां पृथिव्यां नारकाणां परमायुःप्रमाणं-प्रथमेंद्रके तमोनाम्नि एकादशार्णवा द्विसागरस्य पंचभागाभ्यामधिकाः, द्वितीयेंद्रके भ्रमरसंज्ञके द्वादश सागराश्चतुर्भिः पंचभागैरभ्यधिकाः, तृतीयेंद्रके ऋषभनाम्नि चतुर्दश पयोधयः पंचभागेनाऽप्यधिकाः, चतुर्थेद्रकेऽधःसंज्ञके पंचदशोदधयस्त्रिभिः पंच भागैरभ्यधिकाः, पंचमेंद्रके तमिस्राभिधाने कथितान्येव सप्तदशसागरोपमाणि । षष्ठयां पृथिव्यां नारकाणां परमायुः-प्रथमेंद्रके हिमनाग्नि सागरोपमस्य द्वित्रिभागाभ्यामधिका अष्टादशपयोधयः, द्वितीयेंद्रके वर्दलसंज्ञके विंशतिपयोधयस्त्रिभागेनाप्यधिकाः, तृतीयेंद्रके लल्लकनाम्नि उक्तान्येव द्वाविंशतिसागरोपमाणि, सप्तम्यां तु पृथिव्यामवधिस्थानसंज्ञकेंद्रके नारकाणां त्रयस्त्रिंशत्सागरोपमाण्येव परमायुषः । श्रेणिबद्धेषु प्रकीर्णकेषु च नारकाणां स्वकीयेंद्रकप्रतिबद्धमुत्कृष्टमायुर्वेदितव्यं । यदल्पं तन्मुखं मुखं भूमेर्विशोध्य विशुद्धं च शेषमुच्छ्रयभाजितमिच्छया गुणितं मुखसहितं च कृत्वा सर्वत्र वाच्यमिति ॥ ७४ ॥ __ सर्वपृथिवीषु नारकारणां जघन्यस्थितिमायुषः प्रतिपादयन्नाह;पढमादियमुक्कस्सं बिदियादिसु साधियं जहण्णत्तं । धम्मायभवणवितर वाससहस्सा दस जहण्णं ॥ ७५ ॥ प्रथमादिकमुत्कृष्टं द्वितीयादिषु साधिकं जघन्यं । धर्माभवनव्यंतराणां वर्ष सहस्राणि दश जघन्यं ॥ ७५ ॥ टीका- प्रथमादिर्यम्य तत्प्रथमादिकं आयुरिति संबध्यते, उक्कस्संउत्कृष्ट, बिदियादिसु-द्वितीयाआदिर्यासां ता द्वितीयादयस्तासु द्वितीयादिषु
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy