SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पर्याप्तत्यधिकारः । पृथिवीषु, साधियं-साधिकं समयाधिकं, जहण्णत्तं जघन्यं तत् । प्रथमायां यदुत्कृष्टं द्वितीयायां समयाधिकं जघन्यं तदायुस्तथा द्वितीयायां यदुत्कृष्टमायुर्नारकाणां तृतीयायां नारकाणां समयाधिकं जघन्यं तत् । तृतीयायामुत्कृष्टं यदायुञ्चतुर्थ्यां समयाधिकं जघन्यं तत्, चतुर्थ्यो यदुत्कृष्टमायुः पंचम्यां समयाधिकं जघन्यं तत् । पंचम्यामुत्कृष्टं यदायुः षष्ठ्यां समयाधिकं जघन्यं तत् षष्ठ्यामुत्कृष्टं यदायुः सप्तम्यां समयाधिकं जघन्यं तत् । एवं सर्वासु पृथिवीषु सर्वप्रस्तरेषु सर्वेद्रकेषु योज्यं, प्रथमेंद्रके यदुत्कृष्टमायुर्नारकाणां द्वितीयेंद्र के समयाधिकं जघन्यं तत्, द्वितीयेंद्र के यदुत्कृष्टमायुस्तृतीयेंद्र के समयाधिकं जघन्यं तत् । एवमेकान्नपंचाशदिंद्रकेषु नेतव्यमिति । अथ केषां नारकाणां देवानां च जघन्यमायुर्दशवर्षसहस्राणीत्यत आह;— धम्मा-धर्मायां सीमंतके नारके नारकाणां भवण - भवनवासिनां विंतरव्यंतराणां, वाससहस्सा-वर्षसहस्राणि, दस - दश, जहण्णा - जघन्यायुषः स्थितिः । सीमंतक नरके नारकाणां भवनावसिनां देवानां व्यंतराणां च जघन्यमायुर्दशवर्षसहस्राणीति ॥ ७५ ॥ " २२७ भवनवासिनां व्यंतराणां चोत्कृष्टमायुः प्रमाणं प्रतिपादयन्नाह; —- असुरेस सागरोवम तिपल्ल पल्लं च णागभोमाणं । अद्धाद्दिज्ज सुवण्णा दु दीव सेसा दिवङ्कं तु ॥ ७६ ॥ असुरेषु सागरोपमं त्रिपल्यं पल्यं च नागभौमानां । अर्धतृतीये सुपर्णानां द्वे द्वीपानां शेषाणां द्वय तु ॥ ७६ ॥ टीका - असुरेसु - असुराणां भवनवासिनां प्रथमप्रकाराणां अंबावरीषादीनां, सागरोवम - सागरोपमं, तिपल्ल- त्रीणि पल्यानि त्रिपल्योपमानि, पलं च - पल्यं च पल्योपमं णागभौमाणं – नागेंद्राणां धरणेंद्र दीनां, भोमाणं भौमानां व्यंतराणां किंनरेंद्राणां यथासंख्येन संबंधः नागेंद्राणामुत्कृष्टमा स्त्रीणि पल्योपमानि व्यंतराणां किंनरादीनामुत्कृष्टमायुरेकं फल्यो
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy