SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२८ मूलाचार पमं घातायुरपेक्ष्य सार्धपल्यं । अद्धादिज्ज अर्धततीये द्विपल्योपमे पल्योपमार्धाधिके द्वे पल्योपमे, सुवण्णा-सुपर्णकुमाराणां, तु-दु द्वे पल्योपमे दीव-दीपानां द्वीपकुमाराणां, सेसा-शेषाणां विद्युदग्निस्तनितोदधिदिग्वायुकुमाराणां दिवढं तु अर्धाधिकं पल्योपमं पल्योपमार्द्धनाधिकमेकं पल्योपमं । सुपर्णकुमाराणां प्रकृष्टमायुर्दै पल्योपमे पल्योपमार्दाधिके, द्वीपकुमाराणां च द्वे पल्योपमे प्रकृष्टमायुः शेषाणां तु कुमाराणां षण्णां पल्योपमं पल्योपमार्दाधिकमुत्कृष्टमायुरिति ॥ ७६ ॥ ज्योतिषां जघन्योत्कृष्टमायुः शक्रादीनां च जघन्यं प्रतिपादयन्नाह;पल्लहमाग पलं च साधियं जोदिसाण जहण्णिदरम् । हेडिल्लुक्कस्सठिदी सक्कादीणं जहण्णा सा ॥ ७७ ॥ पल्याष्टभागः पल्यं च साधिकं ज्योतिषां जघन्यमितरत् । अध उत्कृष्ठस्थितिः शकादीनां जघन्या सा ॥ ७७ ॥ टीका- पल्लटुभाग-पल्याष्टभागः पल्योपमस्याष्टभागः, पल्लं चपल्योपमं च, साधियं-साधिकं वर्षलक्षणाधिकं, जोदिसाण-ज्योतिर्षा चंद्रादीनां, जहण्णिदरं-जघन्यमितरञ्च । ज्योतिषां जघन्यमायुः पल्योपमस्याष्टभाग उत्कृष्टं च पल्यापमं वर्षलक्षाधिकं घातायुरपेक्ष्य पल्योपमं सार्द्धमुत्कृष्टं । हेटिल्लुक्कस्सठिदी-अध उत्कृष्टायुः स्थितिः, अधःस्थितानां ज्योतिष्कादीनां सक्कादीणं-शकादीनां सौधर्मादिदेवानां, जहण्णा साजघन्या सा । ज्योतिषां योत्कृष्टायुषः स्थितिःसौधर्मेशानयोः समयाधिका जघन्या सा सौधर्मेशानयोरुत्कृष्टायुषः स्थितिः सनत्कुमारमाहेंद्रयोर्देवानां समयाधिका जघन्या सा, सानत्कुमारमाहेन्द्रयोर्योत्कृष्टा ब्रह्मब्रह्मोत्तरयोः समयाधिका जघन्या सा । एवं योज्यं यावत् त्रयस्त्रिंशत्सागरोपमाणाति ॥ ७ ॥ अथ कोत्कृष्टाऽऽयुषः स्थितिः शक्रादीनां या जघन्या स्यादित्यत आह;
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy