________________
पर्याप्त्यधिकारः।
२२९
बे सत्त दसय चोद्दस सोलस अट्ठार वीस बावीसा। एयाधिया य एतो सक्कादिसु सागरुवमाणं ॥ ७८॥
द्वे सप्त दश चतुर्दश षोडश अष्टादश विंशतिः द्वाविंशतिः । एकाधिका च इतः शक्रादिषु सागरोपमानं ॥ ७८॥
टीका-वे-दे, सत्त-सप्त, दस य-दश च, चोदस-चतुर्दश, सोलस-षोडश, अटार-अष्टादश, वीस-विंशतिः, वावीस-द्वाविंशतिः, एयाधिया-एकाधिका एकैकोत्तरा, एतो-इतो द्वाविंशतेरुई सक्कादिसुशक्रादिषु सौधर्मेशानादिषु, सागरुवमाणं-सागरोपमानं । सौधर्मेशानयोर्देवानां वे सागरोपमे परमायुषः स्थितिरघातायुषोऽपेक्ष्यैतदुक्तं सूत्रे, घातायुषो उपक्ष्य पुनर्से सागरोपमे सागरोपमार्धेनाधिके भवतः, एवं सौधर्मेशानमारभ्य तावदर्द्धसागरोपमेनाधिकं कर्त्तव्यं सूत्रनिर्दिष्टपरमायुर्यावत्सहस्रारकल्पः उपरि घातायुषः समुत्पत्तेरभावात् । सनत्कुमारमाहेंद्रयोः सप्त सागरोपमाणि परमायुषः स्थितिः सर्वत्र देवानामिति संबंधनीयं, ब्रह्मब्रह्मोत्तरयोर्दश सागरोपमाणि, किंतु लौकांतिकदेवानां सारस्वतादीनामष्टौ सागराः, लांतवकापिष्ठयोश्चतुर्दश सागराः, शुक्रमहाशुक्रयोः षोडशाब्धयः, शतारसहस्रारयोरष्टादश पयोधयः, आनतप्राणतयाविशतिः सागरोपमानां, आरणाच्युतयोविंशतिः सागरोपमानां, सुदर्शने त्रयोविंशतिरब्धीनां, अमोघे चतुर्विंशतिः पयोधीनां, सुप्रबुद्धे पंचविंशतिरुदधीनां, यशोधरे षड्विंशतिर्नदीपतीनां, सुभद्रे सप्तविंशतिरुदधीनां, सुविशालेऽ'ष्टाविंशतिरब्धीनां, सुमनस्येकान्नत्रिंशदुदधीनां, सौमनसे त्रिंशदर्णवानां, प्रीतिकरे एकत्रिंशदुदधीनां, अनुदिशि द्वात्रिंशदुदधीनां, सर्वार्थसिद्धौ त्रयस्त्रिंशत्सागरोपमानामेवं त्रिषष्टिपटलेषु चतुरशीतिलक्षविमानेषु त्रयोविंशत्यधिकसप्तनवतिसहस्राधिकेषु श्रेणिबद्धप्रकीर्णकसंज्ञविमानेषु देवानां स्वकीयस्वकीयेंद्रकवद्देवायुषः प्रमाणं वेदितव्यं । ऋतुविमलचंद्रवल्गुवीरारुणनंदननलिनकांचनरोहित चंचन्मारुतर्द्धिईशानवैडूर्यरुचकरुचिरांकस्फटिकतपनीयमेघाभ्र-हारिद्रपद्मलोहिताख्यवज्रनंद्यावर्त्तप्रभंकरपृष्ठंकरांजनमित्र