________________
पर्याप्त्यधिकारः।
२२५
न्द्रके भ्रांतसंज्ञके सागरोपमस्य दशमभागः, पंचमेंद्रक उद्धांताभिधाने छौ दशभागौ, षष्ठेद्रके संभ्रांतसंज्ञके दशभागास्त्रयः, सप्तमेंद्रकेऽसंभ्रांतनाम्नि दशभागाश्चत्वारः, अष्टमेंद्रके विभ्रांते दशभागाः पंच, नवमेंद्रके त्रस्तसंज्ञके दशभागाः षट्, दशमेंद्रके त्रसिते दशभागाः सप्त, एकादशेंद्रके वक्रांते दशभागा अष्टौ, द्वादशेंद्रकेऽवक्रांते दशभागा नव, त्रयोदशेंद्रके विक्रांते दशभागा दश, सागरोपमस्येति सर्वत्र संबंधः । द्वितीयायां पृथिव्यां नारकाणां प्रथमेंद्रके ततकसंज्ञके परमायुषः स्थितेः प्रमाणं द्विसागरोपमस्यैकादशभागाभ्यामधिकं सागरोपमं, द्वितीयेंद्रके स्तनके सागरोपममेकादशचतुभगराधक, तृतीयेंद्रके मनके सागरोपमं षड्भिरेकादशभागैरधिकं, चतुर्थंद्र के वनके सागरोपममेकादशभागैरष्टभिरधिकं, पंचमेंद्रके घाटसंज्ञके सांगरोपममेकादशभागैर्दशभिरधिकं, षष्ठेद्रके संघाटकसंज्ञके द्वे सागरोपम एकादशभागेनाधिके, सप्तमेंद्रके जिह्वाख्ये द्वे सागरोपमे त्रिभिरेकादशभागैरधिके, अष्टमेंद्रके जिह्निकनाम्नि द्वे सागरोपमे पंचभिरेकादशभागैरधिके, नवमेंद्रके लोलनामके द्वे सागरोपमे सप्तभिरेकादशभागैराधिके, दशमेंद्र के लोलुपाख्य द्वे सागरोपमे नवभिरेकादशभागैरधिके, एकादशेंद्रके स्तनलोलुपनाम्नि उक्तान्येव त्रीणि सागरोपमाणीति । तृतीयायां पृथिव्यां प्रथमेंद्रके तप्तनाम्नि नारकाणां परमायुषः प्रमाणं त्रीणि सागरोपमाणि सागरोपमस्य नवभागैश्चतु. र्भागैरभ्याधिकानि, द्वितीयेंद्रके त्रस्तनामके सागरास्त्रयो नवाष्टभागैरभ्यधिकाः, तृतीयके तपनसंज्ञके चत्वारः सागरा नवभागैस्त्रिभिरभ्यधिकाः, चतुर्थप्रस्तरे तापनाख्ये चत्वारः सागराः सप्तभिर्नवभागैरभ्यधिकाः, पंचमेंद्रके निदाघाख्ये पंच सागरा नवभागा द्वाभ्यामधिकाः, षष्ठंद्रके प्रज्वलिते पंच सागराः नवभागैः षड्भिरभ्यधिकाः सप्तमेंद्रके ज्वलिते षट् सागरा नवभागेनैकेनाभ्यधिकाः, अष्टमेंद्रके संज्वलिते षट् पयोधयो नवभागैः पंचभिरभ्यधिकाः, नवमेंद्रके संज्वलिते उक्तान्येव सप्तसागरोपमाणि । चतुर्थ्यां पृथिव्यां नारकाणां परमायुषः प्रमाणं-प्रथमेंद्रक आरनाम्नि सप्त पयोधयः त्रिभिः सप्तभागैर
१ व्युक्तान्त इत्यपि पाठान्तरम् । २ संस्तनक इति च ।
१५