________________
२२४
मुलाचारे
अल्पप्रपंचत्वात्प्रथमतरं तावन्नारकाणां सामान्यसूत्रसूचितं प्रकृष्टमायुःप्रमाणं सर्वपृथिवीनां प्रतिपादयन्नाहःएकं च तिणि सत्तय दस सत्तरसेव होति बावीसा । तेतीसमुदधिमाणा पुढवीण ठिदीणमुक्कस्सं ॥ ७४ ॥
एकं च त्रीणि सप्त च दश सप्तदशैव भवंति द्वाविंशतिः। प्रयस्त्रिंशत् उदधिमानानि पृथिवीनां स्थितीनामुत्कृष्टं ॥ ७४॥ टीका-एकं च एकं च सर्वत्रोदधिमानानीत्यनेनसंबंध: तिण्णि-त्रीणि, सत्त य-सप्त च, दस-दश, सत्तरस-सप्तदश एवकारोऽवधारणार्थः , होंतिभवति, वावीसं द्वाविंशतिः, तेत्तसिं-त्रयस्त्रिंशत्, उदधिमाणा-उदधिमानानि, पुढवीणं-पृथिवीनां रत्नशर्करावालुकापंकधूमतमामहातमःप्रभाणां सप्तानां यथासंख्येन संबंधः, ठिदीणं स्थितीनामायुरित्यनुवर्तते तेनायुःस्थितीनां नान्यकर्मस्थितीनां ग्रहणं भवति नापि नरकभूमिस्थितीनामिति उक्कस्सं-उत्कृष्टं । रत्नप्रभायां त्रयोदशप्रस्तरे नारकाणामायुःस्थिते: प्रमाणमेकसागरोपमं, शर्कराप्रभायामेकादशप्रस्तरेऽधोनारकाणां परमायुः स्थितेः प्रमाणं त्रीणि सागरोपमाणि । वालुकाप्रभायां नवमप्रस्तरेऽधोनारकाणां परमायुःस्थितेः प्रमाणं दशसागरोपमाणि, धूमप्रभायां पंचमप्रस्तरे परमायुःस्थितेः प्रमाणं सप्तदशसागरोपमाणि, तमः प्रभायां तृतीयप्रस्तरे नारकाणां परमायुःस्थितेः प्रमाणं द्वाविंशतिः सागराणां । महातमः प्रभायां अवधिस्थाननरके नारकाणां परमायुः स्थितेः प्रमाणं त्रयस्त्रिंशदुदधिमानानि इति । प्रथमायां तावत्तत एवमभिसंबंधः क्रियते रत्नप्रभायां नारकाणामेकसागरोपममुत्कृष्टायुःस्थितिरित्येवं सर्वदात्र सर्वेऽपि मध्यमविकल्पा आयुःस्थितेर्वक्तव्या देशामर्शकसूत्रेण ? मूचितत्वात् । प्रथमायां पृथिव्यां प्रथमप्रस्तरे सीमंतकेन्दुके नारकाणां परमायुषः स्थितेः प्रमाणं नवतिसहस्रवर्षप्रमाणं भवति, द्वितायेंद्रके नारकाभिरव्ये वर्षाणां नवतिलक्षाणि, तृतीयकेंद्रके रौरुकनाम्नि पूर्वकोट्यस्त्वसंरव्येयाः, चतुर्थे