________________
पर्याप्त्यधिकारः।
२२३
wwwwwwww
दोणि-द्वे । तिरिएसु य-तिर्यक्षु च तिरश्चां वा तिर्यक्शब्दः प्रत्येकभोगभूमिषु संबध्यते, सण्णीणं-संज्ञिनां समनस्कानां “अत्र संज्ञिशब्दो भोगभूमिषु असंज्ञिनामभावप्रतिपादकः भोगभूमिजास्तिर्यचः संज्ञिन एवति" । तिण्णि य-त्रीणि च, तह य-तथा कुरवगाणं-कौरवकाणां चात्र कुरुवशब्द उत्तरकुरुदेवकुरुषु वर्त्तमानो गृह्यते सामान्यनिर्देशात् । पंचसु च हरिवंशेषु मध्यमभोगभूमिषु पंचसु च रम्यकवंशेषु मध्यमभागेभूमिषु च मनुष्याणां तिरश्चां च संज्ञिनां द्विपल्योपमं परमायुः, पंचसूत्तरकुरुषु पंचसु देवकुरुषु चोत्कृष्टभोगभूमिषु मनुष्याणां तिरश्चां च त्रीण पल्योपमानि परमायुरिति॥७२॥ __ नारकाणां देवानां च परमायुषः स्थितिं प्रतिपादयन्नाहःदेवेसु णारयेसु य तेत्तीसं होंति उदधिमाणाणि । उक्कस्सयं तु आऊ वाससहस्सा दस जहण्णा ॥७३॥ देवेषु नारकेषु च त्रयस्त्रिंशत् भवंति उदधिमानानि । उत्कृष्टं तु आयुः वर्षसहस्राणि दस जघन्यनि ॥ ७३ ॥ टीका-देवेसु-देवानामणिमाद्यष्टर्द्धिप्राप्तानां, णारयेसु य-नारकाणां च सर्वाशुभकराणां अथवा देवेषु नारकेषु च विषये तेत्तीसं-त्रयस्त्रिंशत् त्रिभिरधिकं दशानां त्रयं, होंति-भवंति, उदधिमाणाणि सागरोपमाणि उकस्सयं तु-उत्कृष्टं, तु शब्दोऽवधारणार्थ । आऊ-आयुः वाससहस्सावर्षाणां सहस्राणि वर्षसहस्राणि, दस-दश, जहण्णं-जघन्यं, निकृष्टं । सामान्यकथनमेतत् द्रव्यार्थिकशिष्यानुग्रहनिमित्तं विस्तरतः सूत्रेणोत्तरत्र कथनं पर्यायार्थिकशिष्टानुग्रहार्थ “ सर्वानुग्रहकारी च सतां प्रयासो यतस्ततः सामान्यविशेषात्मकं प्रतिपादनं युक्तमेव सामान्यविशेषात्मकत्वाच्च सर्ववस्तूनां सामान्येन प्रतिपन्ने सति विशेषस्य सुखेनावगातर्नित्यक्षाणकैकांतवादिमतं च निराकृतं भवति । सामान्येन देवानां नारकाणां चोत्कृष्टमायुः प्रयस्त्रिंशत्सागरोपमाणि जघन्यं च देवनारकाणामायुर्दशवर्षसहस्राणीति ॥ ७३॥