________________
२२२
मूलाचारे
गृह्यते । कर्मभूमिजानां पक्षिणामुत्कृष्टमायुसप्ततिवर्षसहस्राणि भवंति, असंज्ञिनां कर्मभूमिजमनुष्याणामन्येषां कर्मभूमिप्रतिभागजानां चैका पूर्वकोटी वर्षाणां परमायुर्भवतीति ॥ ७० ॥ ___ अथ भोगभूमिजानां किंप्रमाणं परमायुरित्यत आह;
हेमवदवंसयाणं तहेव हेरण्णवंसवासीणं । - मणुसेसु य मेच्छाणं हवदि तु पलिदोपमं एक ।। ७१॥
हैमवतवंशजानां तथैव हैरण्यवंशवासिनाम् । मनुष्येषु च म्लेच्छानां भवति तु पल्योपमं एकं ॥ ७१ ॥ टीका-हेमवदवंसयाणं-हैमवतवंशजानां, तहेव-तथैव हैरण्यवतवंशवासिनां, मणुसेसु य-मानुषेषु च मध्ये मेच्छाणं-म्लेच्छानां सर्वम्लेच्छखंडेषु जातानां भोगभूमिप्रतिभागजानां अंतीपजानां वा समुच्चयश्चशब्देन हवदि तु भवति तु, पलिदोपम-पल्योपममेकं । पंचसु जघन्यभोगभूमिषु हैमवतसंज्ञकासु तथा परासु पंचसु जघन्यभोगभूमिषु हैरण्यवतसंज्ञकासु च मध्ये सर्वम्लेच्छखंडेषु जातानां भोगभूमिप्रतिभागजानामन्तीपजानां च । पल्योपममेकं परमायुरिति ॥ ७१॥ ___ मध्यमभोगभूमिजानां परमायुःप्रमाणमाहःहरिरम्मयवंसेसु य हवंति पलिदोवमाणि खलु दोण्णि। तिरिएमु य सण्णीणं तिण्णि य तह कुरुवगाणं च ॥७२॥
हरिरम्यकवंशेषु च भवंति पल्योपमानि खलु द्वे। तिर्यक्षु च संज्ञिनां त्रीणि च तथा कुरवकाणां च ॥७२॥
टीका-मनुष्या इत्यनुवर्तते, हरिरम्मयवंसेसु य हरिरम्यकवंशेषु च वंशशब्दोऽत्र प्रत्येकमभिसंबध्यते, पंचसु हरिवंशेषु मध्यमभोगभूमिषु पंचसु रम्यकवंशेषु च, हवंति-भवतः पलिदोवमाणि-पल्योपमानि, द्वे खलु स्फुटं,