SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पयाप्त्यधिकारः। २२१ दशगुणितानि दशकोटीसहस्राणि कोटीकोटीत्येवमादि कालप्रमाणं नेतव्यमिति । वर्षलक्षं चतुरशीतिरूपगुणितं पूर्वीगं भवति, पूर्वागं चतुरशीतिगुणितं पूर्व भवति, पूर्वस्य तु प्रमाणं सप्ततिकोटीशतसहस्राणि कोटीनां तु षट्पंचाशत्सहस्राणि चेति । प्रस्तुतं वक्ष्येमच्छाणं-मत्स्यानां पुवकोडी-पूर्वकोटी पूर्वाणां कोटी “ सप्ततिकोटीशतसहस्राणि कोटीनां षट्पंचाशत्सहस्राणि च कोटीगुपितानि पूर्वकोटी भवति" । परिसप्पाणं-परिसर्पतीति परिसः गोधेरगोधादयस्तेषां परिसर्पाणां तु णव य पुव्वंगा-नवैव पूर्वागानि चतुरशीतिलक्षाणि नवगुणितानि वादालीसं-दाचत्वारिंशत्, सहस्सां-सहस्राणि, उत्तरगाथाः वर्षशब्दस्तिष्ठति तेन सह संबंधः, न पूर्वपूर्वागाभ्यामिति, ताभ्यां सह वर्षाणां संबंधे पूर्वागमविरोधः स्यात्तस्मादाचत्वारिंशत्सहस्राणीति संभवंति उरगाणंउरसा गच्छंति इति उरगाः सास्तेषामुरगाणां, होदि-भवंति, उक्करसंउत्कृष्टं । मत्स्यानां पूर्वकोटी परमायुः परिसर्पाणां तु नवैव पूर्वांगानि सर्पाणां पुनः परमायुर्वर्षाणां द्वाचत्वारिंशत्सहस्राणीति ॥ ६९॥ पक्षिणामसंज्ञिनां च परमायुः प्रमाणमाह;पक्खीणं उक्कस्सं वाससहस्सा बिसत्तरी होति । एगा य पुव्वकोडी असण्णीणं तह य कम्मभूमीणं ॥७॥ · पक्षिणां उत्कृष्टं वर्षसहस्राणि द्वासप्ततिः भवति। एका च पूर्वकोटी असंज्ञिनां तथा च कर्मभौमानां ॥ ७० ॥ टीका-पक्खीणं-पक्षिणां भैरुंडादीनां, उक्कस्सं-उत्कृष्टमायुरिति संबंधः, वाससहस्सा-वर्षसहस्राणि, विसत्तरी-दासप्ततिः, होंति-भवति । एगा य-एका च, पुव्वकोडी-पूर्वकोटी असण्णणं-असज्ञिनां मनोविरहितपंचेंद्रियाणां तह-तथा, कम्मभूमीणं-कर्मभौमानां “कर्मभौमशब्दोऽनंतराणां सर्वेषां विशेषणं " तथाशब्देन च सप्ततिशतार्यखंडप्रभवा भनुष्या: परि
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy