________________
२२०
मूलाचारे
wwwwwwwwwwmmmmmmmmmmmmmm एकोनपंचाशत्, उक्कस्सं-उत्कृष्टं । द्वीन्द्रियाणां प्रकृष्टमायुःद्वादशसंवत्सरा एव, त्रींद्रियाणां पुनरुत्कृष्टमायुः एकेनोनपंचाशद्रात्रिदिवसानामिति ॥ ६७॥
चतुरिंद्रियपंचेंद्रियाणामाह;चउरिदियाणमाऊ उक्स्सं खलु हवेज छम्मासं । पंचेंदियाणमाऊ एत्तो उर्दू पवक्खामि ॥ ६८ ॥
चतुरिन्द्रियाणामायुः उत्कृष्टं खलु भवेत् षण्मासाः। पंचेंद्रियाणामायुः इत ऊर्ध्व प्रवक्ष्यामि ॥ ६८ ॥ टीका-चउरिंदियाणं-चतुरिन्द्रियाणां भ्रमरादीनां, आऊ-आयु उक्कस्सं-उत्कृष्टं, हवेज्ज-भवेत्, छम्मासं-षण्मासाः । पंचेंदियाण-पंचेंद्रि याणां, आऊ-आयुः एतो उड्डे-इत ऊर्दु विकलेंद्रियकथनोर्दू, पवक्खामिप्रवक्ष्यामि प्रतिपादयिष्यामि । चतुरिन्द्रियाणामुत्कृष्टमायुः षण्मासमितं भवेत, इत ऊर्दू पंचेंद्रियाणामायुर्वक्ष्यामीति ॥ ६८ ॥
तदेव प्रतिपादयति;मच्छाण पुवकोडी परिसप्पाणं तु णवय पुव्वंगा। बादालीस सहस्सा उरगाणं होइ उक्कस्सं ॥६९ ॥
मत्स्यानां पूर्वकोटी परिसर्पाणां तु नवैव पूर्वागानि । द्वाचत्वारिंशत् सहस्राणि उरगाणां भवति उत्कृष्टं ॥१९॥
टीका-वर्ष दशगुणितं दशवर्षाणि, दशवर्षाणि दशगुणिता वर्षशतं, वर्षशतं दशगुणितं वर्षसहस्र, वर्षसहस्रं दशगुणितं दशवर्षसहस्राणि, दशवर्षसहस्राणि दशगुणितानि वर्षशतसहस्रं, वर्षशतसहस्रं दशगुणितं दशवर्षशतसहस्राणि, दशवर्षशतसहस्राणि दशगुणितानि कोटी, दशगुणिता कोटी दशकोटी, दशकोटी दशगुणिता कोटीशतं, कोटीशतं दशगुणितं कोटीसहस्रं, कोटीसहस्रं दशगुणितं दशकोटीसहस्राणि,