SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्याधिकाराः। vvvvv परमायुः सप्तैव वर्षसहस्राणि । रत्तिंदियाणि-रात्रिंदिनानि अहोरात्रं, तिण्णि दु-त्रय एव, तेऊणं-तेजसां तेजः कायिकानां, होइ-उक्कस्सं भवत्युत्कृष्टं । आकायिकानां परमायुः सप्तैव वर्षसहस्राणि त्रीणि रात्रिदिनानि तेजःकायि-. कानां परमायुरिति ॥६५॥ वायुकायिकानां वनस्पतिकायिकानां च परमायुःप्रमाणमाहःतिण्णि दु वाससहस्सा आऊ वाउस्स होइ उक्कस्सं । दस वामसहस्साणि दु वणप्फदीणं तु उक्कस्सं ॥६६॥ प्रीणि तु वर्षसहस्राणि आयुः वायूनां भवति उत्कृष्टं । दश वर्षसहस्राणि तु वनस्पतीनां तु उत्कृष्टं ॥६६॥ टीका-तिण्णि दु-त्रीणि तु त्रीण्येव नाधिकानि, वाससहस्सा-वर्षसहस्राणि, आऊ-आयुः, वाउस्स-वायूनां वायुकायिकानां, होदि उक्कस्सं-भवस्युत्कृष्टं । दस वाससहस्साणि-दशवर्षसहस्राणि, तुशरोऽवधारणार्थः” वणप्फदीणं तु-वनस्पतीनां च वनस्पतिकायानां तु उक्कस्सं-उत्कृष्टमेव । वायुकायिकानामुत्कृष्टमायुस्त्रीण्येव वर्षसहस्राणि, वनस्पतिकायिकानां तूत्कृष्ट- - मायुर्दशैववर्षसहस्राणीति ॥ ६६ ॥ विकलेंद्रियाणामायुःप्रमाणमाहःवारस वासा वेइंदियाणमुक्कस्सं भवे आऊ । राइंदियाणि तेइंदियाणमुगुवण्ण उक्कस्सयं ॥ ६७ ॥ द्वादश वर्षाणि द्वीन्द्रियाणमुत्कृष्टं भवेदायुः। रात्रिदिनानि त्रींद्रियाणामेकोनपंचाशत् उत्कृष्टं ॥ ६७ ॥ टीका-वारस वासा-द्वादशवर्षाणि, वेइंदियाणं-दीन्द्रियाणां शंखप्रभूतीनां उक्कस्सं-उत्कृष्टमेव, हवे-भवेत्, आऊ-आयुः । रत्तिंदिणाणि-रात्रिदिनानि अहोरात्ररूपाणि तेइंदियाण-त्रीन्द्रियाणां गोभ्यादीनां, उगुवण्ण- -
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy