SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१८ मूलाचारे वारसबाससहस्सा आऊ सुद्धेसु जाण उक्कस्सं । खरपुढविकायगेसु य वाससहस्साणि बावीसा ॥ ६४ ॥ द्वादशवर्षसहस्राणि आयुः शुद्धेषु जानीहि उत्कृष्टम् । खरपृथिवीकायिकेषु च वर्षसहस्राणि द्वाविंशतिः ॥ ६४ ॥ टीकाः-नारकतिर्यङमनुष्यदेवभवधारणहेतुः कर्मपुद्गलपिंडं आयुः । औदारिकमिश्रवैक्रियकवैक्रियकमिश्रशरीरसाधारणलक्षणं वायुः । तत्र वारसवाससहस्सा-दादशवर्षसहस्राणि, उच्छ्रासानो त्रीणि सहस्राणि त्रिसप्तत्यधिकसप्तशतानि च गृहीत्वैको मुहूर्तः आगमोक्तं लक्षणमेतत् । लौकिकैः पुनः सप्तशतैरुच्छ्रासमुहूर्तो भवति । आगमिक उच्छास उदरप्रदेशनिर्गमागृहीतो लौकिकः पुनः नासिकाया निर्गमात् गृहीत इति न दोषः । त्रिंशन्मुहूतैर्दिवसस्त्रिंशद्भिर्दिवसैर्मासो द्वादशभिर्मासैवर्षः । आऊ-आयुः भवस्थितिः सुद्धेसु- शुद्धेषु शुद्धानां पृथिवीकायिकेष्विति संबंधः जाणजानीहि, उक्करसं-उत्कृष्टं, खरपुढविकायिगेसु य-खरपृथिवीकायिकेषु च मृत्तिकादयः शुद्धपृथिवीकायिकाः पाषाणादयः खरपृथिवीकायिकाः, वाससहस्साणि-वर्षसहस्राणि वावीस-द्वाविंशतिः । शुद्धपृथिवीकायिकानामुत्कृष्टमायुर्दादशवर्षसहस्राणि, खरपृथिवीकायिकानां चोत्कृष्टमायुविंशतिवर्षसहस्राणि भवंतीति ॥ ६४॥ अप्कायिकतेजःकायिकानामायुःप्रमाणमाह;-- सत्त दु वाससहस्सा आऊ आउस्स होइ उक्कस्सं । रतिंदियाणि तिण्णुि दु तेऊणं होइ उक्कस्सं ॥ ६५ ।। सप्त तु वर्षसहस्राणि आयुरपां भवति उत्कृष्टं । रात्रिंदिनानि त्रीणि तु तेजसां भवति उत्कृष्टं ॥६५॥ टीका-सत्त दु-सप्तैव, वासासहस्सा-वर्षसहस्राणि, आऊ-आयुः, आउस्स-अपां अप्कायिकानां होइ-भवति उक्कस्सं-उत्कृष्टं, अप्कायिकानां
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy