SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१७ पर्याप्त्यधिकारः। nawww.m.www. sane...xcmmmmmmmmmmmmmmmmmmmx कूर्मोन्नतयोनौ तीर्थकरा द्विविधचक्रवर्तिनः । रामा अपि च जायते शेषाः शेषयोर्योन्योः॥ ६२ ॥ टीका-कूर्मोन्नतयोनौ विशिष्टसर्वशुचिप्रदेशे शुद्धपुद्गलप्रचये या तित्थयरा-तीर्थकराः, दुविहचक्कवट्टीय-द्विविधचक्रवर्तिनः चक्रवर्त्तिवासुदेवप्रतिवासुदेवाः रामाविय रामाश्चापि बलदेवा आप जायंते समुत्पद्यते । सेसा-शेषा अन्ये तीर्थकरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवविवर्जिता भोगभूमिजादयः, सेसेसु-शेषयोः जोणीसु-योन्योर्वशपत्रशंखावर्त्तयोरुत्पद्यते । किंतु शंखावर्ते विपद्यते गर्भः स भोगभूमिजानां न भवति ते धनपवायुष इति ॥ ६२ ॥ संवृतादियोनिविशेषाँश्चतुरशीतिसहस्रभेदान् प्रतिपादयन्नाहःणिच्चिदरधादु सत्तय तरु दस विगलिंदियेसु छञ्चेव । मुरणरतिरिए चउरो चोद्दस मणुएसु सदसहस्सा॥६३ ॥ नित्यतरधातुसप्तकं तरूणं दश विकलेंद्रियाणां षट् चैव। सुरनारकतिरश्चां चत्वारि चतुर्दश मनुजानां शतसहस्राणि॥६३॥ . टीकाः-नित्यनिगोदेतरनिगोदपृथिवीकायिकाप्कायिकतेजःकायिकवायुकायिकानां सप्त लक्षाणि योनीनां । तरूणां प्रत्येकवनस्पतीनां दशलक्षाणि योनीनां । विकलेंद्रियाणां द्वीन्द्रियत्रींद्रियचतुरिन्द्रयाणां षट्शतसहस्राणि । सुराणां चत्वारि लक्षाणि । नारकाणां चत्वारि लक्षाणि । तिरश्चां सुरनारकमनुष्यवर्जितपचेंद्रियाणां चत्वारि लक्षाणि । मनुष्याणां चतुर्दशशतसहस्राणि योनीनामिति संबंधः । एवं सर्वसमुदायेन चतुरशीतिशतसहस्राणि योनीनामिति । नात्र पौनरुक्त्यं पूर्वेण सहाधिकारभेदात् पर्यायार्थिकशिध्यानुग्रहणाच्च ॥६३॥ आयुषः स्वरूपं प्रमाणेन स्वामित्वपूर्वकं प्रतिपादयन्नाह :---
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy