SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१६ मूलाचारे टीका-सीदुण्हा-शीतोष्णा, खलु-स्फुटं, जोणी-योनिः, गेरहयाणं-नारकाणां, तहेव देवाण-तथैव देवानां, तेऊण-तेजःकायानां, उसिणजोणी-उष्णयोनिः । तिविहा-त्रिविधा, शीता-उष्णा-शीतोष्णा, जोणी दु-योनिस्तु सेसाणं-शेषाणां पृथिवीकायाप्कायवायुकायवनस्पतिकायद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां देवनारकवर्जितपंचेंद्रियाणां । देवनारकाणां शीतोष्णा च योनिः तेषां हि कानिचिच्छीतानि कानिचिदुष्णानि तेजःकायिकानां पुनरुष्ण एव योनिः शेषाणां तु त्रिविधो योनिस्ते च केचिच्छीतयोनयः केचिदुष्णयोनयः केचिच्छीतोष्णयोनयः अप्कायिकाः शीतयोनय एवेति ॥ ६० ॥ 'पुनरप्येतेषां योनीनां विशेषयोनिस्वरूपमाह;संखावत्तयजोणी कुम्मुण्णद वंसपत्तजोणी य । तत्थ य संखावत्ते णियमादु विवज्जए गब्भो ॥६१ ॥ शंखावर्तकयोनिः कूर्मोनतः वंशपत्रयोनिश्च।। तत्र च शंखावत नियमात् विपद्यते गर्भः ॥ ६१ टीका-संखावत्तय शंख इव आवर्तो यस्य शंखावर्तका जोणी-योनिः कुमुण्णद-कूर्म इवोन्नतः कूर्मोन्नतः, वंशपत्तजोणी य-वंशपत्रमिव योनिवैशपत्रयोनिः । तत्र च तेषु मध्ये शंखावर्ते नियमात् विवज्जए विपद्यते विनश्यति गर्भो “गर्भः शुक्रशोणितगरणं"। शंखावर्त्तकूर्मोन्नत्वंशपत्रभेदेन त्रिविधो योनिस्तत्र च शंखावर्ते योनौ नियमाद्विपद्यते गर्भः अतः तद्वती वंध्या भवतीति ॥ ६१॥ तेषु य उत्पद्यते तानाह;कुम्मुण्णदजोणीए तित्थयरा दुविहचक्रवट्टी य । रामावि य जायते सेसा सेसेसु जोणीसु ॥६२॥ १ ' तद्वती ' ख-ग-पुस्तके नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy