SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। - www.ammmmmmmmmm योनिर्येषां ते संवृतयोनयः दुरुपलक्ष्योत्पत्तिप्रदेशाः, हवंति-भवंति, देवा य-देवाश्च संवृतयोनयः, वियलिंदिया-विकलेन्द्रियाश्च द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियाः, वियडा-विवृतयोनयश्च, तास्थ्यात्ताच्छब्धं संपुडवियडा य-संवृतविवृताः संवृतविवृतयोनयः, गब्भेषु-गर्भेषु स्त्रियांउदरे “ शुक्रशोणितयोर्मिश्रणं गर्भः " । देवनारकैकेन्द्रियाः संवृतयोनयः, विकलेन्द्रिया ये ते विवृतयोनयः, गर्भेषु ये ते संवृतविवृतयोनयः भवन्तीति ॥ ५८॥ पुनस्तेषां विशेषयोनित्वमाहःअञ्चित्ता खलु जोणी णेरइयाणं च होइ देवाणं । मिस्सा य गब्भजम्मा तिविहा जोणी दु सेसाणं ॥५९॥ अचित्ता खलु योनिः नारकाणां च भवति देवानां । .. मिश्राश्च गर्भजन्मनां त्रिविधा योनिस्तु शेषाणां ॥ ५९॥ टीकाः-अञ्चित्ता-निश्चेतना, खलु-स्फुटं, जोणी-योनिः, णेरइयाणं च-नारकाणां च होइ-भवति देवाणं-देवानां चशब्दोऽत्र संबंधनीयः । मिस्सा य मिश्रा च, गब्भजम्मा-गर्भजन्मनां गर्भजानां । तिविहा-त्रिविधा त्रिप्रकारा, जोणी दु-योनिस्तु, सेसाणं-शेषाणां, सम्मूर्च्छनजन्मनामेद्रियीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रियाणां देवनारकाणां गर्भवर्जितपंचोन्द्रयाणां च देवनारकाणां अचित्तयोनयः, गर्भजाः सचित्ताचित्तयोनयः, शेषाः पुनरेकेन्द्रियादिपंचेन्द्रियपर्यंताः केचन सचित्तयोनयः केचन अचित्तयोनयः केचन सचित्तााचत्तयोनयश्च भवंतीति ॥ ५९ ॥ पुनरपि तेषामेव विशेषयोनिस्वामित्वमाहःसीदुण्हा खलु जोणी णेरइयाणं तहेव देवाणं । तेऊण उसिणजोणी तिविहा जोणी दु सेसाणं ॥६॥ शीतोष्णा खलु योनिः नारकाणां तथैव देवानां । तेजसा उष्णयोनिः त्रिविधा योनिस्तु शेषाणां ॥ ६० ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy