________________
२१४
मूलाचारे
शोधनमशीतशतद्विगुणस्य लक्षयोजनप्रमाणात्तस्मात् द्वीपात् तद्विसृष्टं रहितं क्रियते तस्मिन् कृते शेषो द्वीपविशेष इत्युच्यते तस्य द्वीपविशेषस्य वर्गः क्रियते' स वर्गो दशगुणः क्रियते तस्य मूलं षष्टया विभाजितं भक्तं दिनार्धमानाहतं नवभिर्गुणितं " दिनार्धशब्देन नव मुहूर्ताः परिगृह्यते " । सर्वाभ्यंतरपरिधिषष्टिमुहूर्ते भ्रमति मार्तंडोऽतः षष्ठिभिर्भागो मध्याह्न भवति नवभिर्मुहूर्तेरयोध्यायां नवगुणकारः । एवं कृते च यल्लब्धं परिमाणं पूर्वोक्तं चक्षुषो विषयो भवति आषाढमासे सर्वाभ्यंतरवर्त्मनि मिथुनावसाने स्थितस्यादित्यस्याध्वनो ग्रहणमिति ॥ ५७ ॥
स्वामित्वपूर्वकं योनिस्वरूपं प्रतिपादयन्नाहःएइंदिय रइया संपुडजोणी हवंति देवा य । वियलिंदिया य वियडा संपुडवियडा य गन्भेसु ॥५८॥
एकेंद्रियाश्च नारकाः संवृतयोनयो भवंति देवाश्च । विकलेंद्रिया विवृताः संवृतविवृताश्च गर्भेषु ॥ ५८॥
टीका-सचित्तशीतसंवृताचित्तोष्णविवृतभेदैः सचित्ताचित्तशीतोष्णसंवृतविवृतभेदैश्च नवप्रकारा योनिर्भवति । यूयते भवपरिणत आत्मा यस्यामिति योनिर्भवाधारः । आत्मनश्चैतन्यविशेषपरिणामश्चित्तं सह चित्तेन वर्त्तते इति सचित्तं, शीत इति स्पर्शविशेषः ‘शुक्लादिवदुभयवचनत्वात्तयुक्तं द्रव्यमप्याह' । सम्यग्वृतः संवृतः दुरुपलक्ष्यप्रदेशोऽचित्तरहितपुद्गलप्रचयप्रदेशो वा, उष्णः संतापपुद्गलप्रचयप्रदेशो वा, विवृतो संवृतः प्रकटपुद्गलप्रचयप्रदेशो वा, उभयात्मको मिश्रः सचित्ताचित्तः शीतोष्णः संवृतविवृतः एतैर्भेदैश्च नवयोनयः सम्मूर्छनगर्भोपपादानां जन्मनामाधारा भवंति एतेषु प्रदेशेषु जीवाः सम्मूर्च्छनादिस्वरूपेणोत्पद्यत इति । तत्र एईदिय णेरइया-एकेंद्रिया नारकाश्च, संपुडजोणी-संवृतयोनयः, संवृता
१ अस्मादने ' तत्तद्गुणो वर्गः । इति पाठः ख-ग-पुस्तके । यूयते ख-ग ।