________________
पर्याप्त्यधिकारः ।
भिर्योजनैः स्थितानि स्पर्शरसगंधद्रव्याणि स्पर्शनरसनघ्राणन्द्रियहाति शब्दं पुनदशयोजनैः स्थितं श्रोत्रंद्रियेण गृह्णातीति ॥ ५५ ॥ . .
सूचितचक्षुर्विषयमाह;सत्तेतालसहस्सा वे चेव सदा हवंति तेसट्ठी। चक्खिदिअस्स विसओ उक्कस्सो होदि अदिरित्तो॥५६॥
सप्तचत्वारिंशत्सहस्राणि द्वे चैव शते भवंति त्रिषष्टिः। चक्षुरिदियस्य विषय उत्कृष्टो भवति अतिरिक्तः ॥ ५६ ॥ टीका-सत्तेताल-सप्तचत्वारिंशत्, सहस्सा-सहस्राणि, वे चेव सदा वे चैव शते, हवंति-भवंति तेसट्टी-त्रिषष्टयाधिके योजनानामिति संबंधः चविखंदियस्स चक्षुरिन्द्रियस्य, विसओ-विषयः, उक्कस्सो-उत्कृष्टः होइ भवति अदिरित्तो-अतिरिक्तः, अतिरिक्तस्य प्रमाणं गव्यूतमेकं दंडानां द्वादशशतानि पंचदशदंडाधिकानि हस्तश्चैकः द्वे चांगुले साधिकयवचतुर्थभागाधिके; संज्ञिपंचेंद्रियपर्याप्तकचक्षुरिन्द्रियस्य विषयो योजनानां सप्तचस्वारिंशत्सहस्राणि त्रिषष्टयधिकद्विशताधिकानि पंचदशाधिकद्वादशशतदंडाधिकैकगव्यूताधिकानि सविशेषयवचतुर्थभागाधिकद्व्यंगुलाधिकैकहस्ताधिकानि च । एतावताध्वना संज्ञिपंचेंद्रियः पर्याप्तको रूपं पश्यतीति॥५६॥
अस्यैव प्रमाणस्यानयने करणगाथामाहःअस्सीदिसदं विगुणं दीवविसेसस्स वग्ग दहगुणिय । मूलं सद्विविहत्तं दिणद्धमाणाहतं चक्खू ॥ ५७ ।।
अशीतिशतं द्विगुणं द्वीपविशेषस्य वर्गो दशगुणितः । मूलं षष्टिविभक्तं दिनार्धमानाहतं चक्षुः ॥ ५७ ॥ टीका-असीदिसदं-अशीत्यधिकं शतं, विगुणं-द्विगुणं द्वाभ्यां गुणितं षष्ट्यधिकत्रिंशत्प्रमाणं भवति द्वीपशब्देन जंबूद्वीपविष्कंभयोजनलक्षं परिगृह्यते सर्वाभ्यंतरान्यवर्मपरिधिप्रमाणानयननिमित्तमुभयोः पार्श्वयोर्वि