________________
२१२ .
मूलाचारे
अष्टावेव धनुःसहस्राणि श्रोत्रस्पर्शमसंज्ञिनो जानीहि । विषया अपि च ज्ञातव्याः पुद्गलपरिणामयोगेन ॥ ५४॥
टीका-अट्रेव धणुसहस्सा-अष्टावेव धनुःसहस्राणि, सोदप्फासं-श्रोत्रस्पर्श श्रोत्रंद्रियविषयं; असण्णिणो-असंज्ञिनोऽसंज्ञिपंचेंद्रियस्य, जाणजानीहि । असंज्ञिपंचेन्द्रियश्रोत्रविषयं धनुषामष्टसहस्रं जानी तावताध्वना स्थितं शब्दं गृह्णाति श्रोत्रेणासंज्ञिपोंद्रिय इति । विसयावि य-विषयाश्चापि णायब्वा-ज्ञातव्याः पोग्गलपरिणामजोगेण-पुद्गलस्य मूर्त्तद्रव्यस्य परिणामो विशिष्टसंस्थानमहत्वप्रकृष्टवाण्यादिः पुद्गलपरिणामस्तेन योगः संपर्कस्तेन पुद्गलपरिणामयोगेन एतावतोक्तांतरेण विशिष्टा रूपादयः दिवाकरादिभूता विशिष्टैरिन्द्रियैर्गृह्यते नान्यथेति ॥ ५४ ॥ ___ संज्ञिपंचेंद्रियस्य पंचेंद्रियविषयं प्रतिपादयन्नाह;फासे रसे य गंधे विसया णव जोयणा य णायव्वा । सोदस्स दु वारसजोयणाणिदो चक्खुसो वोच्छं॥५५॥ स्पर्शस्य रस्य च गंधस्य विषयाः नव योजनानि ज्ञातव्यानि। श्रोत्रस्य तु द्वादशयोजनानीतश्चक्षुषो वक्ष्ये ॥ ५५ ॥ टीका--फासे-स्पर्शस्य स्पर्शनेन्द्रियस्य, रसे-रसस्य रसनेंद्रियस्य, गंधे-गंधस्य ब्राणेंद्रियस्य, विसया-विषयाः ग्रहणगोचराणि, णवजोयणा-नव योजनानि, णायव्वा-ज्ञातव्यानि, सोदस्सदु-श्रोत्रस्य तुश्रोत्रंद्रियस्य पुनः, वारस जोयणाणि-द्वादश योजनानि इदो-इत ऊर्ध्वं, चवखुसोचक्षुषः संज्ञिपंचेंद्रियस्य चक्षुरिन्द्रियस्य च, वोच्छं-वक्ष्ये, संज्ञिपंचेंद्रियस्य प्रकृष्टेंद्रियस्य चक्रवर्त्यादेः स्पर्शनेंद्रियस्य नवयोजनानि विषयः रसनेंद्रियस्य नव योजनानि विषयः प्राणोंद्रियस्य नव योजनानि विषयः श्रोत्रंद्रियस्य द्वादश योजनानि विषयः संज्ञिपंचेंद्रिय उत्कृष्टपुद्गलपरिणामान्नवभिनव
१ सहस्रा ख. ग. २ वर्णादिः ख ग । ३ मुणेयव्वा ख. ग. । .