________________
ananananana
पर्याप्त्यधिकारः ।
२११ wwwwwwww.wwwimmrrrrrrrrrrrrrrr... यस्य, णियमा-नियमात् निश्चयेन । चक्खुप्फासं-चक्षुःस्पर्श विषयं वियाणाहि-विजानीहि । इमं चतुरिन्द्रियस्य चक्षुरिन्द्रियविषयं योजनानामेकोनत्रिंशच्छतं चतुःपंचाशयोजनाधिकं विजानीह्यसंदेहेनेति । न चक्षुषः प्राप्तग्राहित्वं त्तक्षुःस्थांजनादेरग्रहणात्, न च गत्वा गृह्णाति चक्षुःप्रदेशशून्यत्वप्रसंगात् । नापि विज्ञानमय चक्षुर्गच्छति जीवस्याज्ञत्वप्रसंगात्, न च स्वोऽर्धस्वरूपेण गमनं युज्यतेऽतरे सर्ववस्तुग्रहणप्रसंगात् इति ॥ ५२ ॥
असंज्ञिपंचेंद्रियस्य चक्षुर्विषयं प्रतिपादयन्नाह;उणसहि जोयणसदा अद्वेव य होंति तह य णायव्वा । असण्णिपंचेंदीए चक्खुप्फासं वियाणाहि ॥ ५३॥ एकोनषष्टियोजनशतानि अष्टैव च भवंति तथा च ज्ञातव्यानि। असंक्षिपंचेंद्रियस्य चक्षुःस्पर्श विजानीहि ॥५३॥ टीका-उणसटि-एकोनषष्टिः, एकेनोना षष्टिः। जोयणसदा-योजनानां शतानि योजनशतानि, अहेव य-अष्टावपि च योजनानि, होंति-भवंति । तह य णायव्वा-तथैव ज्ञातव्यानि असण्णिपंचदीए-असंज्ञिपंचेंद्रियस्य शिक्षालापादिरहितपंचेंद्रियस्य, चक्खुप्फासं-चक्षुःस्पर्श चक्षुर्विषयं चक्षुषा ग्रहणं, वियाणाहि-विजानीहिं। योजनशतानामेकोनषष्टिस्तथैवाष्टयोजनानि च भवंति ज्ञातव्यान्येतत्प्रमाणमसंज्ञिपंचेंद्रियस्य चक्षुरिन्द्रियविषयं जानीहि एतावत्यध्वनि स्थितं रूपमसंज्ञिपंचेंद्रियो गृह्णाति चक्षुरिन्द्रियेणेति ॥ ५३॥ - असंज्ञिपंचेंद्रियस्य श्रोत्रविषयं प्रतिपादयन्नाह;अट्ठव धणुसहस्सा सोदप्फासं असण्णिणो जाण । विसयावि य णायचा पोग्गलपरिणामजोगेण ॥ ५४॥
१'इम' प्रेस-पुस्तके नास्ति । २ चक्षुरिंद्रियविषयस्य प्रेस--पुस्तके पाठः । ३ विज्ञानमेयं प्रेस पुस्तके । ४ सन्तानस्वरूपेण ख-ग । ५ अस्मादयं तत्प्रमाणा एतावंति ख. । एतावति ग ! एतावति गोचरे ख. ग।