________________
२१०
मूलाचारे
सहस्राणि धनुषामेतावताध्वना स्थितं स्पर्श गृह्णाति चतुरिन्द्रियःस्पर्शनेन्द्रियेण, तथा तस्यैव चतुरिन्द्रियस्य रसनेन्द्रियविषयो धनुषां वे शते षट्पंचाशदधिके एतावताध्वना स्थितं रसं चतुरिन्द्रियः रसनेन्द्रियेण गृह्णाति तथा तस्यैव चतुरािंद्रयस्य घ्राणेन्द्रियविषयो द्वे शते धनुषामेतावताध्वना स्थितं गंधं गृण्हाति चतुरिन्द्रियो घाणेन्द्रियेण, तथाऽसंज्ञिपंचेंद्रियस्य स्पर्शनेंद्रियविषयः चतुः शताधिकानि षट्सहस्राणि धनुषामेतावत्यध्वनि स्थितं स्पर्शमसंज्ञिपंचेंद्रियो गृह्णाति स्पर्शनेंद्रियेण तथा तस्यैवासंज्ञिपंचेंद्रियस्य रसनेंद्रियविषयः द्वादशोत्तराणि पंचशतानि धनुषामेतावत्यध्वनि स्थितं रसं गृह्णाति असंज्ञिपंचेंद्रियो रसनेंद्रियेण तथा तस्यैवासंज्ञिपंचेंद्रियस्य घ्राणेंद्रियविषयो धनुषां चत्वारि शतानि एतावताध्वना स्थितं गंधं गृह्णाति असंज्ञिपंचेंद्रियो घ्राणेंद्रियेण । न चैतेषामिन्द्रियाणां प्राप्तग्राहित्वनैतावताध्वना ग्रहणमयुक्तमप्राप्तग्राहित्वमापि, यतो युक्त्या आगमेन च न विरुध्यते, युक्तिस्तावदेकेन्द्रियो दूरस्थमपि वस्तु जानाति पादप्रसारणात् यस्यां दिशि वस्तु सुवर्णादिकं स्थितं,प्रारोहं प्रसारयत्येकेन्द्रियो वनस्पतिः । अवष्टंभप्रदेशे च नालानि व्युत्सृजतीति । तथागमेऽपि स्पर्शनेन्द्रियादीनामप्राप्तग्राहित्वं पठितं पत्रिंशत्रिशत इति विकल्पस्य कथनादिति ॥ ५१ ॥ ।
चतुरिन्द्रियस्य चक्षुर्विषयं प्रतिपादयन्नाह;इगुणतीसजोयणसदाइं चउवण्णाय होइ णायब्वा । चउरिदियस्स णियमा चक्खुप्फासं वियाणाहि ॥५२॥ एकोनत्रिंशत् योजनशतानि चतुःपंचाशत् भवति ज्ञातव्यानि। चतुरिंद्रियस्य नियमात् चक्षुःस्पर्श विजानीहि ॥ ५२ ॥ टीका-इगुणतीसजोयणसदाइं-एकोनत्रिंशद्योजनशतानि योजनानामेकोनानि त्रिंशच्छतानि, चहुवण्णाय-चतुः पंचाशञ्चतुर्भिरधिका च पंचाशयोजनानां, होइ-भवति, णायव्वा-ज्ञातव्यानि। चउरिंदियस्स-चतुरिन्द्र