________________
पर्याप्त्यधिकार:
ययेवं स एव विषयः कियानिति प्रतिपाद्यतामित्युक्तेऽत आह;-. चत्वारि धणुसदाइं चउसट्ठी धणुसयं च फस्सरसे। गंधे य दुगुणदुगुणा असण्णिपंचिंदिया जाव ॥५१॥
चत्वारि धनुशतानि चतुःषष्टि धनुःशतं च स्पर्शरसयोः ।
गंधस्य च द्विगुणद्विगुणानि असंज्ञिपंचेद्रियं यावत् ॥५१॥ ___ टीका-चत्तारि-चत्वारि, धणुसदाइं-धनुःशतानि, चउसट्टी-चतुःषष्टिर्धनुषामिति संबंधः धनुषां चतुर्भिरधिका षष्टिः, धणुसयं च-धनुःशतं च, फस्सरसे, स्पर्शरसयोः स्पर्शनेन्द्रियस्य रसनेंद्रियस्य, गंधे य-गंधस्य च घ्राणेन्द्रियस्य च, दुगुणदुगुणा-द्विगुणद्विगुणाः, असण्णिपंचेंदिया जावअसंज्ञिपंचेन्द्रियं यावत् । एकेंद्रियमारभ्य यावदसंज्ञिपंचेंद्रियः-स्पर्शविषय उत्तरत्र कथ्यते तेन सह संबंधः । एकेन्द्रियस्य स्पर्शनेन्द्रियविषयश्चत्वारि धनुःशतानि, एतावताध्वना स्थितं स्पर्श गृह्णन्ति पृथिवीकायिकाप्कायिकतजःकायिकवायुकायिका उत्कृष्टशक्तियुक्तस्पर्शनेन्द्रियेण । तथा द्वीन्द्रियस्य रसनेन्द्रियविषयश्चतुःषष्टिधनुषां एतावताऽध्वना स्थितं रसं गृण्हाति रसनेन्द्रियेण द्वीन्द्रियस्तथा तस्यैव द्वीन्द्रियस्य स्पर्शनेन्द्रियाविषयोऽष्टौ धनुः शतानि एतावताऽध्वना स्थितं स्पर्श गृह्णाति द्वन्द्रियः स्पर्शनेन्द्रियण, तथा त्रीन्द्रियस्य ब्राणेन्द्रियविषयः धनुषां शतं एतावताध्वना स्थितं गंधं गृह्णाति त्रीन्द्रियो घ्राणेन्द्रियेण तथा तस्यैव त्रीन्द्रियस्य स्पर्शनेन्द्रियविषयः षोडशधनुःशतानि एतावताध्वना प्यवस्थितं स्पर्श गृह्णाति त्रीन्द्रियः स्पर्शनेन्द्रियेण तथा तस्यैव त्रीन्द्रियस्य रसनेन्द्रियविषयोऽष्टाविंशत्यधिकं च शतं धनुषां एतावताध्वना स्थितं रसं गृह्णाति, त्रीन्द्रियः रसनेंद्रियेण तथा तस्यैव त्रीन्द्रियस्थ घ्राणेन्द्रियविषयः शतं धनुषां एतावताध्वना स्थितं गंधं गृह्णाति त्रीन्द्रियो घाणेन्द्रियण, तथा चतुर्रािद्रियस्य स्पर्शनेन्द्रियविषयो द्विशताधिकानि त्रीणि
१४